पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
नैषधीयचरिते

नैषधीयचरिते त्वदिति॥हे भैमि,तपोभिः पुण्यैरद्य त्वां लब्ध्वा प्राप्य अमृततृप्ति(प्तिभाजां) पीयूषपानजनिततृप्तितुल्यतृप्तिभाजा तस्य नलस्य बहिरिन्न्द्रद्यारियाणां चक्षुरादीनां केवलानां यं 'आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत्' इत्यादिश्रुतिसिद्धं स्वीयं देवत्वं चरितार्थं कृतकार्यमस्तु । एतावत्कालं शब्दमात्रेण तेषां देवत्वमभूत्, इदानीं त्वल्लाभेनामृततृप्तितुल्यत्वाद्देवत्वं सार्थकं भविष्यतीत्यर्थः। किंभूतस्य तस्य-त्वय्येव बद्धा निवेशिता बुद्धिमनो येन । अनशननियमवतश्च । किंभूतानामिन्द्रियाणाम्-मनसस्त्वयि लीनत्वात्तेषु मनोव्यापाराभावादुपवासव्रतं विद्यते येषाम् । अन्यस्यापकृष्टेन्द्रियस्यानशननियमव्रतः परब्रह्म ध्यायतः पुण्यैस्तदेव ब्रह्म लब्ध्वा मोक्षलक्षणानन्दभाजो देवत्वं सार्थकं भवतीत्युक्तिः । बहिरिन्द्रियाणां निजव्यापारेष्वप्रवृत्तिस्तपः। विषयभोगाभावश्चोपवासः। अमृतपाने हि देवानां देवत्वं, तथा त्वल्लाभे तदिन्द्रियाणामपि देवत्वं कृतार्थमस्तु । देवभूयम् । भुवो भावे क्यप् । उपवासश्चासौ व्रतं चेति कर्मधारयादिनिः समर्थनीयः। उपवासेन व्रतिना इति वा समाधिः॥ नलस्य तद्विरहेण कामजनितं विरहज्वरमाह-

तुल्यावयोर्मूर्तिरभून्मदीया दग्धा परं सास्य न ताप्यतेऽपि ।
इत्यभ्यसूयन्निव देहतापं तस्यातनुस्त्वद्विरहाद्विधत्ते ॥ १०२ ॥

 तुल्येति ॥ हे भैभि, अतनुः कामः त्वद्विरहात्तस्य नलस्य देहतापं विधत्ते करोति । किं कुर्वन्निव-इति पूर्वोक्तप्रकारेण अभ्यसूयन्निव ईर्ष्यां कुर्वन्निव । इति किम्-आवयोः कामनलयोर्मूर्तिः शरीरं पूर्वं तुल्या समानाभूत्, अनन्तरं मदीया सा मूर्तिः दग्धा, अस्य नलस्य सा मूर्तिः परमतिशयेन ताप्यतेऽपि न एतच्छरीरस्य दाहोऽपि न क्रियते, एवं परं संतापोऽपि केनचिन्न क्रियत इति । अनङ्गस्त्वद्विरहादेव देहतापं करोति, नान्यस्मादित्यर्थः । मम च तस्य च आवयोः 'त्यदादीनां मिथः' इत्येकशेषः ॥ दशा वर्णयति-

लिपिं दृशा भित्तिविभूषणं त्वां नृपः पिबन्नादरनिर्निमेषः ।
चक्षुर्झरैरार्पितमात्मचक्षूरागं स धत्ते रचितं त्वया नु ॥ १०३ ॥

 लिपिमिति ॥ नृपो नलः दृशा दृष्टया भित्तेर्विभूषणमलंकारभूतां लिपिं चित्रनिर्मितां त्वामादरेण तात्पर्येण निर्निमेषो नेत्रसंकोचरहितः सन् पिबन्सादरमवलोकयंश्चक्षुर्झरैर्निनिमेषत्वादनुरागवशाच्च जातैर्नॆत्रबाष्पप्रवाहरापत जनितमात्मचक्षुराग स्वीयनयनयोर्लोहितमानं धत्ते । उत्प्रेक्षते त्वया रचितमिव जनितमिव । अयं बाष्पजनितलोहितिमा न भवति, किंतु त्वद्विषयको नयनानुरागः। प्रथमावस्था ।


१ 'अत्र समासोक्तिरलंकारः' इति साहित्यविद्याधरी । 'अर्थान्तरप्रतीतेर्ध्वनिरेवेत्यनुसंधेयम्' इति जीवातुः। २. 'अत्रोत्प्रेक्षालंकारः । अत्र चिन्तालक्षणा स्मरदशोक्ता' इति साहित्यविद्याधरी। ३ 'अत्र नयनप्रीतिर्विषयनिवृत्तिश्च स्मरदशा प्रतिपादिता । अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।

'अत्रोभयकारणसंभवादुभवस्मिन्नपि रागे जाते श्लेषमहिम्नैकत्राभिधानात्कारणविशेषसंदेहः' इति जीवातुः।