अपार्थयन्याजकफूत्कृतिश्रमं ज्वलेद्रुषा चेद्वपुषापि नानलः ।
अलं नलः कर्तुमनग्निसाक्षिकं विधिं विवाहे तव सारसाक्षि कम् ॥ ८० ॥
अपेति ॥ अनलोऽग्निः याजकानां पुरोधसां वह्निसंधुक्षणार्थं फुत्कृतिश्रममपार्थयन्व्यर्थीकुर्वन्सन् रुषा क्रोधेनैव चेज्वलेत् न तु वपुषा ज्वालारूपेण दीप्तो भवेत् । फूत्कृतेऽपि त्वयानादृतत्वात्क्रोधवशात्सधूम एव भवेत्, न तु ज्वालालादीप्तः । तर्हि हे सारसाक्षि कमलनयने, तत्र विवाहे नलः अनग्निसाक्षिकं वह्निलक्षणसाक्षिरहितं कं विधि लाजहोमादिकं कर्तुं समर्थो भवेत् । एवंसति कं वरीष्यसीति भावः । वैवाहिको विधिरग्निसाक्षिकः, न तु धूमसाक्षिक इत्यर्थः । 'सारसाक्षि किम्' इति पाठे विधिं कर्तुं किमलम् । अपि तु नेत्यर्थः । अपिरे[१]वार्थः ॥
पतिंवरायाः कुलजं वरस्य वा यमः कमप्याचरितातिथिं यदि।
कथं न गन्ता विफलीभविष्णुतां स्वयंवरः साध्विसमृद्धिमानपि ॥ ८१ ॥
पतिमिति ॥ यमः पतिवरायाः तव कमपि कुलजं वंशजं बन्धुं, वरस्य नलस्य वा कु. लजं यदि चेदतिथिमाचरिता कर्ता । मारयेदित्यर्थः। हे साध्वि पतिव्रते, तर्हि समृद्धिमानपि स्वयंवरः विफलीभविष्णुतां निष्फलीभवनशीलत्वं कथं न गन्ता कथं न प्राप्स्यति अपि तु प्राप्स्यत्येव । मृतकाशौचनिमित्तात्प्रतिकूलत्वाच्च न भवेदेव । ततः कं वरीष्यसीति भावः । पतिं वृणीते पतिंवरा, 'संज्ञायां भृतॄवृजि-'इति खचि 'अरुर्द्विषद्-' इति मुम् । भविष्णु, पूर्ववत्[२] ॥
अपः प्रति स्वामितयापरः सुरः स ता निषेधेद्यदि नैषधक्रुधा ।
नलाय लोभात्ततपाणयेऽपि ते पिता कथं वां वद संप्रदास्यते ॥ ८२ ॥
अप इति ॥ सः अपरोऽन्यः सुरो वरुणः अपः प्रति लक्षीकृत्य स्वामितया प्रभुत्वेन जलपतित्वेन त्वया स्वस्थानादृतत्वात्, नलस्य चाहतत्वात् त्वन्निमित्तेनैव नलरोषेण कृत्वा नलस्य त्वया न भवितव्यमिति बुद्ध्या भवतीभिस्तत्र न गन्तव्यमिति ता अपः यदि निषेधेत् निवारयेत्, ते पिता भीमः त्वदभिलाषेण त्वत्प्रतिग्रहाय लोभात् ततपाणये प्रसारितहस्ताय नलाय त्वां केन प्रकारेण संप्रदास्यते वद कथय । नलस्तु लोभेन जलं विनापि प्रतिग्रहीष्यति, स कथं दास्यतीत्यपिशब्दार्थः । केनापि प्रकारेण तव निस्तारो नेति भावः । 'अपां पतिः' इत्यपि पाठः । गान्धर्वादिविवाहेषु कन्यादाने जलपूर्वत्वे स्मृत्या निषिद्धे सत्यपि भैमीप्रतारणार्थमेवमुक्तमिति ज्ञे[३]यम् ॥
इदं महत्तेऽभिहितं हितं मया विहाय मोहं दमयन्ति चिन्तय ।
सुरेषु विघ्नैकपरेषु को नरः करस्थमप्यर्थमवाप्नुमीश्वरः ॥८३॥