वक्रेन्दुसंनिधिनिमीलदलारविन्द- |
वक्रेति ॥ अथ सरस्वतीवचनानन्तरममरैः सा भैमी अन्यत्र सर्पराजादिसमीपे गन्तुं कृपया अन्वमान्यनुज्ञाता। किंभूता--आत्ममौलावञ्जलिं कृत्वा देवान्नमस्कृत्य अवरणजन्योऽपराधस्तजनितं भयं शापादि तेन चञ्चलं यथा तथा देवानीक्षमाणा । किंभूतमञ्जलिम्-वकेन्दोमुखचन्द्रस्य संनिधिः, तस्मान्निमीलानि संकुचन्ति दलानि पनि यस्य तदरविन्दद्वन्द्वं तस्य भ्रमे क्षमं समर्थम् । संकुचद्दलयुगतुल्यम् । स्वेष्वननुरागिणीं तां ज्ञात्वा यत्र तवानुरागस्तं वृणु, मा भैषीरिति देवैरनुज्ञातेति भावः। अन्योऽप्येवमीक्षमाणः सकृपैरनुकम्प्यते । निमीलन्ति निमीलानि । पचाद्यच् । 'निमीलिदल इति पाठे निमीलनशीलानी[१]त्यर्थ॥
तत्तद्विरागमुदितं शिबिकाधरस्थाः |
तदिति ॥ यानधुर्याः शिबिकावाहिनः उदितं समुत्पन्नं तेषु तेषु विरागम् । अर्थाद्भैम्याः साक्षात्प्रत्यक्षेण यद्यपि मनागपिलेशतोऽपि न विदुः स्म जानते स्म । यतः-शि- बिकाया अधरेऽधोदेशे तिष्ठन्ति शिबिकाधरस्थाः । तथापि आसन्नाः संनिहिता नायका देवादयस्तेषां विषण्णानि म्लानानि मुखानि तैः कृत्वानुमेयानि भैम्या विरक्तचरितानि नमस्कारादीनि तेषामनुमयानुमानेन तर्केण तु पुनः जज्ञार्जानते स्म । तुरवधारणे वा जज्ञुरेव । यत एते विवर्णमुखास्तस्मादेतेषु विरक्तिं ज्ञात्वा अनु पश्चाद-यातेति वचनं विनैवान्यत्र जग्मुरिति तेषां पण्डितत्वं सूचितम् ॥
रक्षःस्वरक्षणमवेक्ष्य निजं निवृत्तो |