लमूलप्रकाण्डतया हेतुना भुजसमुत्पन्नस्तेजोवह्निः प्रतापरुपोग्निः अरिवधूनां नयनाम्बुना नेत्रवाष्पेणापि न नमति न शाम्यति । विद्युद्वह्नेरम्बुना शान्त्य भावान्कारणगुणानां च कार्ये समवायात् विद्युद्रूपवक्षःस्थललक्षणस्य भुजकारणस्य गुणोऽद्भि: शान्त्य
भावलक्षणः तत्कार्यभूते प्रतापाग्नावपि वर्तते । यतः स वैरिवनितास्त्रुणापि न शान्त्यतीति युक्तं वक्षसो वज्रत्वम् । अतिकठिनवक्षःप्रभववाहुसमुत्पन्नोऽत्युद्भदो यस्य प्रतापो
वैरिणो हत्वापि न शाम्यति । वैरिविषये निष्कृपोऽयमिति भावः । वडुबिरहाबदारिहृदयावस्थमेनमनुगृहाणेति भावः । 'कन्दनं तु कपाले स्यादुपरागे नवादरे' इनि
विश्वः[१]।
किं न द्रुमा जगति जाग्रति लक्षसंख्या- |
किमिति ॥ तुल्यः समान उपनीतो दत्तः पिकानां कोकिलानां काकानां फलैः कृत्वा उपभोगो जीवनवृत्तिर्यैरेवंविधा आम्रादयो लक्षसंख्या द्रुमाः जगति भुवनमध्ये किं न जाग्रति विद्यन्ते । अपितु विद्यन्त एव, परं वर्णनीया न भवन्तीत्यर्थः । तु पुनः अमृत कवृत्तीन्सुधैकजीविनो विबुधान्देवान्फलसंप्रदानं स्वीयफलानां दानपात्रं कुर्वन्स एप कल्पविटपी स्तुत्यः स्तोतुमर्हः । अतिप्रसिद्धत्वेन कल्पवृक्षः पुरः स्थित इव एप इत्यभिनयनिर्दिष्टः । उत्तमजातीयानामुत्तमफलवृत्तीनां पिकानां हीनजातीयानां कदर्यव्रत्तीनां काकानां च तुल्यदानात्साभ्यापादनादतिमूर्खत्वादाम्रादयो न स्तुत्याः । कल्पवृक्षस्तु रसाधिकामृतजीवनेभ्यो देवेभ्य एव स्वफलानि ददानो विशेषज्ञत्वात्स्तोतुमर्ह इत्यर्थः । अथ च-पण्डितेषु मूर्खेषु च तुल्यदानास्तारतम्याज्ञानादचेतनदुमतुल्या बहवो राजानः कति न सन्ति, परं यज्ञैकवृत्तीनयाचितवृत्तीन्वा मोक्षैकवृत्तीन्मुमुक्षुन्वान्नादिदानपात्रं कुर्वन्नतिवितरणशीलत्वात्कल्पवृक्षतुल्यः काशीश्वर एव विशेषज्ञः स्तोतव्य इति भङ्ग्याभिहितम् । सर्वनृपाधिकः सर्वेभ्यो दाता पण्डितश्चायं तस्मादेनं वृणीष्वेति भावः । 'द्वे याचितायाचितयोर्यथासंख्यं मृतामृते' इत्यमरः । 'अमृतं यश- शेषे [२] स्यात् ॥
अस्मै करं प्रवितरन्तु नृपा न कस्मा- |