पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/५३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१६
नेपधीयचरिते

अयं किलायात इतीरिपोरवाग्भयादयादस्य रिपुर्वृथा वनम् ।
श्रुतास्तदुत्स्वापगिरस्तदक्षराः पठद्भिरत्रासि शुकैर्वनेऽपि सः ॥२५॥

अयमिति ॥ अयं कलिङ्गदेशाधिप आयातः किल श्रूयते इति ईरयन्तीति ईरिणः पौरास्तेषां वाक तस्याः सकाशाद्भयं तस्माद्धेतोः अस्य रिपुः यत् वनमयात्पलाय्य गतवान् तद्वृथा । रिपुरिति जात्येकवचनम् । वैयर्थ्य हेतुमाह-तान्येव अयं समायात इत्येवंरूपाण्यक्षराणि यामु ताः श्रुताः शुकैरेवाकर्णितास्तस्य एतदीयरिपोः उत्स्वापगिरोऽतिशयिनिद्राप्रलापवाचः एकस्याप्यक्षरस्य व्यत्यासं विना पठद्भिः शुकैर्वनेऽपि स रिपुरत्रासि भीषितः । पलाय्य वने गतानामपि रिपूणामुत्स्वप्नलपितास्ता गिरो बहुशः पठद्भि- शुकैर्वनेऽपि त्रासिता वैरिणः स्थानुं न शक्नुवन्तीत्यर्थः। अतिशूरोऽयमिति भावः ॥

इतस्त्रसविद्रुतभूभृदुज्झिता प्रियाथ दृष्टा वनमानवीजनैः ।
शशंस पृष्टाद्भुतमात्मदेशजं शशित्विषः शीतलशीलतां किल ॥२६॥

इत इति ॥ इतः अस्माद्राज्ञः सकाशात्रसन्तो भीताः अत एव विद्रुताः पलायिताः भूभृतो राजानस्तैः परित्यक्ता प्रिया स्वस्वप्राणेश्वरी वनमानवीजनैर्भिल्लीजनैर्दृष्टा । अथ पश्चादात्मदेशजं अद्भुतं पृष्टा सती भवत्या देशे किमपूर्वमिति, शशित्विषश्चन्द्रस्य शीतलशीलतां किल प्रसिद्धं हिमस्वभावत्वमेव स्वदेशजातमाश्चर्यं शशंसाकथयत् । स्वदेशे वियोगाभावाञ्चन्द्रकराणां शीतलत्वं, वने च वियोगादुप्णत्वमित्यर्थः । प्रियेति जात्येकवचनम् । भर्तृत्यक्ता वियोगज्वरभराक्रान्ता सती वने चन्द्रकान्तमुष्णामनुभवतीत्यर्थः॥

इतोऽपि किं वीरयसे न कुर्वतो नृपान्धनुर्बाणगुणैर्वशंवदान् ।
गुणेन शुद्धेन विधाय निर्भयं तमेनमुर्वीवलयोर्वशी वशम् ॥ २७ ॥

 इत इति ॥ हे भैमि, त्वं इतोऽपि राज्ञः सकाशात् किमिति न वीरयसे शूरा न भवसि । अपितु तस्मादपि शूरा भव । किं वीरा न भवसि अपि तु वीरा भवस्येवेति वा। किंभूतादितः-नृपा़्शत्रुन् धनुश्च बाणाश्च गुणाश्च चापशरमौर्वीरूपैर्बहुभिरुपकरणैः कृत्वा वशंवदान्वश्यान्कुर्वतः । किंभूता त्वम्-उर्विवलये उर्वशीरूपातिसुन्दरी । किं कृत्वा-तमेनं बहुभिर्धनुरादिभिरुपकरणैर्विद्विषां जैत्रं शुद्धेन केवलेन चापादिलेशसंस्पर्शरहितेन सौन्दर्यादिना गुणेन मौर्या च कृत्वा निर्भरमतितरामायासरहितं वा यथा तथा वशं विधाय । बहुसाधनैः पराञ्जयतोऽस्यैकेनैव साधनेन जयकरणादित्यर्थः । मौर्वीमात्रेण जयादाश्चर्यं च । अयं सर्वेभ्योऽपि वीरः अस्मादपि त्वमित्यपेरर्थः। वीरयसे, 'शूर वीर विक्रान्तौ' इति चुरादिः॥

एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती
स्वक्रीडाहंसमोहग्रहिलशिशुभृशमार्थितोन्निद्रचन्द्रा।