तथैवेति ॥ तथैव भैम्या वेदिकोदरे यथा मङ्गलस्नानादि कृतम् ,
तेनैव प्रकारेण क्रमेण च तत्कालं तस्मिन्नेव काले अथ मङ्गलस्नानानन्तरं प्रसाधनासञ्जनं भूषणकरणं तत्संबन्धि शिल्पं विज्ञानकौशलं तस्य पारगैः(अ) शेषविशेषज्ञैः शृङ्गारिभिरनुजीविभिः
सेवकैर्निजस्य स्वस्य विभोः स्वस्वामिनो नलस्यापि पाणिग्रहणक्षणोचिता विवाहकालयोग्या विवाहरूपोत्सवयोग्या वा विभूषणा कृता रचिता । निजस्येति स्वयं प्रवृत्तिः
सूचिता । विभोरित्यविलम्बः सूचितः। भूषयतिश्चुरादिः तस्माद्युच् ॥
श्लोकद्वयेन केशप्रसाधनमाह-
नृपस्य तत्राधिकृताः पुनः पुनर्विचार्य तान्बन्धमावा[१]पिपन्कचान । |
नृपस्येति ॥ तत्र केशप्रसाधने अधिकृता नापितादयः पुनः पुनर्विचार्य धूपजधूमसंशोषणपुरःसरं कङ्कतिकादिना प्रसाधनं कृत्वा । अथ च धूपजधूमस्यापि विद्यमानत्वात्पुनःपुनस्तद्भ्रान्तिवशात् एते केशा एव, न धूम इति चिरान्निश्चित्य । कानि पुष्पाणि कुत्र स्थाप्यानीति योग्यायोग्यभावं विचार्य वा । नृपस्य तान्कचान्धम्मिल्लादिरचनाविशेषग्रन्थिरूपं बन्धमवापिपन्प्रापयामासुः । तान्कान्–यैः कचैः शरदि गरुतः पक्षान्त्यजति गरुत्यक् तस्य कलापिसंघस्य संबन्धी कलापलीलोपनिधिः कलापलीलाया उपनिधिः साम्यमपालापि आच्छादितः । तदपेक्षयाऽधिकैर्जातमित्यर्थः । कलापलीलारूपो य उपनिधिः कविसमयसिद्धः प्रतिनिधिः स यैराच्छादि । जित इवे त्यर्थ इति वा । नलकेशैर्विलासस्य गृहीतत्वानिर्विलासतया निरर्थकं बर्हभारं त्यजतीति सूचनाद् गरुत्त्यज इति पदं साभिप्रायम् । यैः केशैः पक्षत्यागिन्या मयूरसंहतेः कलापशोभानिक्षेप अपालापि गृहीत्वा नास्तीत्यपलापितः । यः परस्य निक्षेपं गृहीत्वा न दत्ते परं प्रतारयति स राज्ञोऽधिकृतैः पुरुषैः पश्चाद्वद्ध्वा शिक्षणीयो भवति । मयूराः शरदि पक्षान्मुञ्चन्ति । 'पुमानुपनिधिर्न्यासः' इत्यमरः । अवापिपन् आप्नोतेर्ण्य॑न्ताल्लुङि द्वितीयस्यैकाचो द्वित्वम्।गत्यर्थत्वादणौ कर्तुर्णौ कर्मत्वम् । 'अलम्भयन्' इति च पाठः॥
पतत्रिणां द्राघिमशालिना धनुर्गुणेन संयोगजुषां मनोभुवः । |
पतत्रिणामिति ॥ अर्जिता लब्धा मार्जनश्रीरभ्यङ्गजनिता स्निग्धशोभा येन । तथा- द्राधिम्नातिदीर्घत्वेन शालते एवंशीलेन । तस्य नलस्य कचेन केशपाशेन सह समेत्य संबन्धं प्राप्य कुड्मलैमल्लिकादिकोरकैः कर्तृभिः, द्राघिमशालिना तथार्जितमार्जनश्रिया पुनःपुनरङ्गुल्यादिना घर्षणाल्लब्धमार्जनसंबन्धिस्निग्धशोभेन भ्रमरमालारूपेण धनुर्गुणेन संयोगजुषां सहितानां मनोभुवः कामस्य पतत्रिणां बाणानां सौभाग्यं सादृश्यमलम्भि । केशपाशस्य भ्रमरमालारूपेण कामधनुर्गुणेन साम्यम् । कोरकाणां च पुष्परूपैर्बाणैः, नलस्य च कामेनेत्यर्थः । अतिविशालनीलतरकलिकालंकृतनलकेशपाशदर्शनमात्रेण भैमी कामवशा भवितेति भावः। कचेन जात्येकवचनम् ॥
- ↑ 'अवापयन्' इति पाठः सुखावबोधास्थः ।