पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/७९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७८
नैपधीयचरिते


दनन्तरं कलिर्भीमजया भैम्या जुष्टं प्रीत्या सेवितं नलं व्यलोकत । कमिव-प्रभया संज्ञादेव्या, अथच-असह्यतेजसा, जुष्टं प्रभाप्रभुं सूर्यमिव । किंभूतमुभयम्-दुष्टा मत्सरादिदोषोपहता दृग् बुद्धिर्येषां तैः पापरूपैर्दुरालोकं पुण्यश्लोकत्वात्पतिव्रतया तया च युक्तत्वात्कलिप्रभृतिभिः सुखेन द्रष्टुमशकम् , काचकामलादिदोषदृग्भिर्दुर्दर्शं च । प्रकृष्टा भा कायकान्तिर्यस्या इति भैमीविशेषणं च । प्रकृष्टया कायकान्त्या पापिभिर्दुरालोकं नलमिति वा । दुरालोकं खलू, तद्योगे च 'न लोका-' इति षष्ठीनिषेधाद्दुष्टग्भिरिति तृतीया ॥

तयोः सौहार्दसान्द्रत्वं पश्यञ्शल्यमिवानशे ।
मर्मच्छेदमिवानर्च्छे स तन्नर्मोमिभिर्मिथः ॥ २०६ ॥

 तयोरिति ॥ स तयोर्भैमीनलयोः सौहार्दं सान्द्रत्वमन्योन्यानुरागोत्कर्षं पश्यञ्शल्यमिव हृदि नाराचव्यधमिवानशे प्राप । तत्तुल्यदुःखोऽभूदित्यर्थः । तथा-मिथोऽन्योन्यं तयोर्नर्मोर्मिभिः क्रीडाकल्लोलैः प्रीत्यालिङ्गनचुम्बनादिभिरनुभावैः कृत्वा मर्मच्छेदमिव प्राणहरणशरीरावयवकर्तनमिवानर्च्छ प्राप । सौहार्दसान्द्रत्वस्य कारणत्वादालिङ्गनादिनर्मणश्च कार्यत्वान्न पौनरुक्त्याशङ्का । सौहार्दम् , युवादित्वाद्भावेणि 'हृद्भग-' इत्युभयपदवृद्धिः॥

अमर्षादात्मनो दोषात्तयोस्तेजस्वितागुणात् ।
स्प्रष्टुं दृशाप्यनीशस्तौ तस्मादप्यचलात्कलिः ॥ २०७ ॥

 अमर्षादिति ॥ कलिरमर्षाद्भैमीनलप्रीतिनर्मासहनशीलत्वरूपाद्रोषात् , तथा-आत्मनो महापातकादिरूपादोषाद्धार्मिकाश्रयणाशक्तेः, तथा तयोर्भैमीनलयोस्तेजस्वितागुणात्कायकान्तिरूपाद्गुणात्सौन्दर्यातिशयात्क्षात्रतेजसश्चाधर्षणीयत्वरूपाद्गुणादित्ये- वहेतुत्रयात्तौ भैमीनलौ न परं मनसा किं तु दृशापि नयनरश्मिनापि स्प्रष्टुमनीशोऽसमर्थः । किं पुनर्हस्तादिना, एवंभूतो यतोऽतस्तस्मान्नलावासात्प्रासादादपि सकाशात्स कलिरचलन्निर्गतः। एवंविधौ तौ दृष्ट्वा तत्रापि प्रवेष्टुमशक्तस्ततोऽपि प्रस्थित इत्यर्थः । अन्योपि मलिनस्तेजस्विनं दशा वीक्षितुमप्यशक्तस्ततः पलायते ॥

अगच्छदाश्रयान्वेषी नलद्वेषी स निश्वसन् ।
अभिरामं गृहारामं तस्य रामसमश्रियः ॥ २०८ ॥

 अगच्छदिति ॥ नलद्वेषी नलद्वेषपरः, अतएव तत्पराभवार्थमाश्रयान्वेपी निवासं मृगयमाणः कुत्रचिदपि तदलाभादुःखामर्षेण च निश्वसन्स कलिः रामेण श्रीरामेण समा तुल्या श्रीः शोभा संपद्यस्य तस्य नलस्याभिरामं वृक्षादिसमृद्धिमत्त्वाद्रमणीयं गृहारामं प्रासादसमीपवर्ति क्रीडावनमगच्छत् । समीपे स्थितौ क्रियमाणायां नलदोषविचारः सुशक इति गृहारामं प्राप्तवानित्यर्थः । श्रीरामसाम्येन नलस्य पावित्र्यं सौन्दर्यं संपदाधिक्यं भाविराज्यपरित्यागश्चेति सूचितम् । तदानीं रामस्य भावित्वे कव्यपेक्षया भूतत्वात्प्रवाहस्यानादितया वा भूतत्वादुपमा युक्तैवेति ज्ञेयम् ॥