तदास्यहसिताज्जातं स्मितमासामभासत । |
तदिति ॥ तस्य नलस्यास्यहसिताज्जातमासां सखीनां स्मितं शीतांशोरालोकात्प्रकाशाज्जातं कुमुदश्रेण्या जृम्भणं विकासनमिवाभासत । 'तदस्य'इति क्वचित्पाठः॥
प्रत्यभिज्ञाय विज्ञाथ स्वरं हासविकस्वरम् । |
प्रतीति ॥ अथ सखीसमूहहासानन्तरं विज्ञाऽतिचतुरा कला तासु सखीषु मध्ये स्वपक्षाया निजमित्रभूतायाः कस्याश्चित्सख्याः स्वरं हासेन विकस्वरं सुव्यक्तम् , अत एव-सोऽयं मत्सख्या एव स्वर इति प्रत्यभिज्ञाय परोक्षप्रत्यक्षोभयांशात्मकज्ञानविषयं कृत्वा जातं बलं यस्यास्तादृशी, भैमी प्रतारणार्थं ससहायोत्साहशक्तियुक्ता वाऽजनि । मत्पक्षीयाऽत्र विद्यतेऽतोऽस्याः सकाशान्मां मोचयिष्यति, शिष्टं वाकर्णयिष्यतीति साश्वासाभूदिति भावः । अन्योपि केनचित्प्रतिबद्धः स्वपक्षीयं दृष्ट्वा जातबलो भवति । सखी स्वरश्रवणं तु कर्णपिधानात्पूर्वमेव ज्ञातव्यम्। अन्यथा स्वरश्रवणानुपपत्तेः। भैमीकरयोः कोमलतरतया कर्णनिबिडपीडने सामर्थ्याभावेन वा श्रवणोपपत्तिः॥
साहूयोच्चै[२]रथोचे तामेहि स्वर्गेण वञ्चिते । |
सेति ॥ अथ स्वपक्षीयस्वरप्रत्यभिज्ञानानन्तरं सा कला तां स्वसखीमुच्चैस्तारस्वरं यथातथाहूय इति ऊचे । इति किम्-दूरस्थत्वात् हे स्वर्गसुखेन वञ्चिते सुन्दरि, एहि समीपमागच्छ, आगत्य त्वं नृप एवाह्लादकत्वाच्चन्द्रस्तस्य सुधावेणीरमृतप्रवाहरूपा वाणीः पिब सादरमाकर्णयेति । स्वर्गेपि चन्द्रामृतपानमेव विशिष्टं नलपरिहासाकर्णनसुखं स्वर्गसुखमेव तदनुभवेत्यर्थः ॥
साशृणोत्तस्य वाग्भागमनत्यासत्तिमत्यपि । |
सेति ॥ कलया आहूता अनत्यासत्तिमत्यपि अत्यन्तनैकट्यरहिताऽपि यत्र स्थितौ किंचिच्छ्रूयते किंचिन्नेति तत्र स्थिता कृशोदरी सा कलासखी तस्य वाचो भागं शिष्टमंशमशृणोत् । कलाकर्णयोर्भैम्या पिहितत्वादाहूता सखी नलकथ्यमानरहस्यकथाशेषमशृणोदित्यर्थः । का कमिव-कृशोदरी कृशमध्या । अल्पजनेति यावत् । एवंभूता बदरी कल्पग्रामनाम्नो ग्रामस्याल्पनिर्घोषं लोककलकलं तत्र पठतां वेदध्वनिं वा तमिव ।