आश्रयादन्यत्रोपलब्धेश्च न स्पर्शवद्विशेषगुण: । वायुरेव यावद्वेगं
चलन् शब्दनिमित्ततयाऽभ्युपगतोऽस्त्वाश्रयः । अणुष्वतीन्द्रियो
न्यायलीलावतीकण्ठाभरणम्
योगित्वात्, आश्रयध्वंसाजन्यध्वंसप्रतियोगित्वाद्वेत्यर्थः । प्रत्यक्षत्वे सतीत्यत्रापि योज्यम् । आश्रयादिति । असमवायिकारणविशेष्यकप्रत्यक्षाविषयत्वादित्यर्थः । गन्धस्पर्शान्यत्वेन हेतुर्विशेष्यस्तेन विततचम्पकादिगन्धवायूपनीतशीतस्पर्शे न व्यभिचारः । प्रत्यक्षत्वे सतीति योजनान्न परमाणुगुणे व्यभिचारः । उक्तहेतूनां स्वरूपा सिद्धिं शङ्कते – वायुरेवेति । अणुध्विति । तथा च कारणगुणपूर्वकत्व-
न्यायलीलावतीप्रकाशः
द्रव्यध्वंसाजन्यध्वंसप्रतियोगत्वादित्यर्थः । अत्रापि प्रत्यक्षत्वे सतीति योज्यं तेन परमाणुगुणैर्न व्यभिचार: । आश्रयादिति । ननु यद्याश्रयाति रिक्तनिष्ठतयोपलभ्यमानत्वादित्यर्थस्तर्हासिद्धिः । वीणायां शब्द इत्यनुभवात् । अथाश्रयं विनोपलभ्यमानत्वादित्यर्थस्तदा गन्धादौ व्यभिचारः । अत्राहुः । अत्रान्यत्रशब्दो विनार्थः, तेनाश्रयं विनोपलब्धियोग्यत्वादित्यर्थः । अयोग्याश्रयकत्वादिति यावत् । अत्र स्पर्शगन्धान्यत्वेन हेतुर्विशेष्यः, तेन वायुस्पर्शचम्पकाद्यधिवासाधारविततद्रव्यस्यायोग्यत्वात्तत्स्पर्शगन्धाभ्यां न व्यभिचारः । यथाक्ष्रुतहेतूनां स्वरूपासिद्धिमाह — वायुरेवेति । निमित्तकारणत्वेनावश्यापेक्षणीयत्वमु
न्यायलीलावतीप्रकाशविवृतिः
विनाऽप्यव्यभिचारात् । यदि च पारिभाषिक विशेषगुणत्वाभाव एव साध्यस्तदा मात्रपदमनुपादेयमेव । मूलस्य [१] प्रत्यक्षत्वे सतीत्यस्थानुषङ्गादेव च न परमाणुगुणैर्व्यभिचार इति वदन्ति | क्वचित्तु स्वाश्रयसमवेत्तगुणासमवायिकारणत्वादिति पाठः । तत्र च भागासिद्धौ शङ्का [२] नास्त्येव विशेषगुणत्वसिद्ध्यनन्तरमेतत्परिशेषावतारे शब्दस्य त्रिविधस्थापि तथात्वस्वीकारात् । परमाणुगुणे व्यभिचारवारणाय मूलस्थं प्रत्यक्षत्वे सतीत्यनुषञ्जनीयमिति दिक् । यावद्दव्यं भवनमुत्पत्तिः सत्त्वं वा द्वयमपि घटरूपे नास्ति ( इति ? ) व्यभिचार इत्यत आह - द्रव्येति । अत्र द्रव्यपदमनर्थकमपि विशिष्टाभावसम्पापकतया न दोषाय । तेनेति । अगृह्यमाणशब्दे भागासिद्धिनिरासाय