पृष्ठम्:न्यायलीलावती.djvu/४८१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
ब्यायलीलावती


परत्वं पश्चादुत्पन्नत्वमपरत्वमिति तत्कणभक्षपक्षाक्षमामात्र विजूम्भितम् । पूर्वपश्चाद्भावस्य परत्वापरत्वातिरिक्तस्य निर्वक्तुमशक्यत्वात् । यथा चैतत्तथाऽस्माभिरपीश्वरसिद्धायुक्तम् । [ इति परत्वापरत्वे । ]


न्यायलीलावतीकण्ठाभरणम्

 अक्षमेति । परत्वापरत्वयोरेककालिकयोरेवमपि समर्थनादित्यर्थः । परत्वापरत्वयोरनुमानम्, - घटः संयोगासमवायिकारण कैकवृत्तिगुणद्वयवान् मूर्त्तत्वात् पार्थिवपरमाणुवत् । ननु परत्वाधाराभिमतसमानकालीनपदार्थध्वंस समानकालत्वमपरत्वमपरत्वाधाराभिम यप्रागभावसमानकालीनत्वं च परत्वमतस्तत् किं कालिकाभ्यां ताभ्यामत आह - यथा चैतदिति । प्रागभावप्रध्वंसाप्रतिसन्धानेऽपि प रापरव्यवहारदर्शनान्नैवमिति भावः ।

न्यायलीलावतीप्रकाशः

किन्ताभ्यामित्यत आह - यथा चेति । प्रागभावोत्पत्त्योस्तदानीमतीतत्वेन परत्वापरत्वयोर्वर्त्तमानताभानानुपपत्तेरिदानीमय मेतस्मात्पर इति वर्त्तमानतानुभवात् प्रागभावादेरवध्य निरूप्यत्वेन परत्वादेश्चावधिनिरूप्यतया तद्भिन्नत्वाच्च नैवमिति भावः । परत्वापरत्वयोरनुमानमध्याहुः :- घटः संयोगासमवायिकारणकैकवृत्तिसमानाधिकरणगुण-

न्यायलीलावतीप्रकाशविवृतिः

त्तरकालान्वयि । प्रागभावोत्पत्योरिति । वस्तुतः प्रागभावत्वाद्यप्रतिसन्धानेऽपि परत्वादिप्रतीतेरतिरिक्तगुणसिद्धिः । किञ्च प्रतीतेरखण्डगुणसाध्यत्वे लाघवमिति प्रागुक्त्तमेव । किञ्च मूलकृन्मते महाप्रलयो नास्त्येव येन महाप्रलयावृत्तित्वेन प्रागभावनिर्वचनं स्यादिति प्रतियोग्यन्यूनेत्यादिना परस्त्रगणैध तन्निर्वचन मिति तदसिद्धौ तदप्य सिद्धमित्यभिमानमिति सङ्क्षेपः । उक्तयुक्त्यनवष्टम्भेऽनुमानमप्रयोजकं तदवष्टम्भे किमनेनेत्यरुचि प्रकाशयति – आहुरिति । घट इति । नोदनजन्यकर्मणा परत्वापरत्वयोरन्यतरेण चार्थान्तरमिति चरमगुणपदम् । संयोगजसंयोगेनोक्तन चार्थान्तरमित्येकवृत्तीति । रूपादिना उक्तेन चार्थान्तरमिति सतोगासमवायिकारणकेति । तथाप्यदृष्टवदात्मसंयोगमादाय तद्दोषतादव-