पृष्ठम्:न्यायलीलावती.djvu/४८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१२
व्यायलीलावती


नधर्मादिजत्वं [१] लक्षणमसिद्धमिति केचित् । तन्न [२] । उभयवि-


न्यायलीलावतीकण्ठाभरणम्

दिपदाद् विप्रतिपत्तिजत्वसङ्ग्रहः । तस्याप्यत्यनभ्युपगमे सामान्यलक्षणसङ्ग्रहः । असमानधर्म्मजत्वमनध्यवसायलक्षणम् । उभयविधेरि-

न्यायलीलावतीप्रकाशः

त्राकार इति । यथा विचित्राकारेऽलीक एवानीलादिव्यावृत्तिनिबन्धनो नीला दिपदप्रयोग इत्यर्थः । समानधर्मादीति । आदिपदाद्विप्रातपत्तेः संशयसामान्यलक्षणस्य च संग्रहः । असाधारणधर्मजज्ञानस्याऽनध्यवसायत्वात् संशयस्य स्थाण्वादिभिन्न विषयतया समानधर्मस्य कोट्यनुपस्थापकत्वात् समानधर्मादिजत्वं लक्षणमसिद्धमित्यर्थः । उभयविधेरिति । उभयस्य स्थाणुत्वस्य पुरुषत्वस्य च यो विधिर्वैशिष्टयं तस्य यदुभर्यानषेधवैशिष्टयं तस्य संशयविषयत्वादित्यर्थः । भावाभावसन्देहे च तदभावेऽप्ये कस्मिन् धर्मिणि विरोधिनानाप्रकारवैशिष्ट्यं संशयविषय इति भावः । ननु धूमाभाववानयं यदि धूमवान् स्यात् तदा वह्यभाववानयं वह्निमान् स्यादिति तर्केऽतिव्यापकमिदम् । अथ तत्र धूमाभावविशिष्टे धूमवैशिष्टयं विषयः संशये च तुल्यवदुभयवैशिष्ट्यं विषय इति चेत्, तथाप्येकस्मिन् धार्मेणि विरोध्युभयवैशिष्ट्यमिति शब्देन जनिते ज्ञानेऽतिव्याप्तिः । जिज्ञासाजनकं ज्ञानं संशयः, न हि सा निश्चयजन्या अनुच्छेद्यत्वापत्तेरिति चेत् न, उपेक्षणीयसंशयाव्या- न्यायलीलावतीप्रकाश विवृतिः

विषयत्वे यद्यपि मूले प्रयोगः समर्थ्यत इत्यवभाससमर्थनव्याख्यानं विरुद्धं तथापि करणव्युत्पत्याऽवभासपदेनापि प्रयोग एवोक्त इति ध्येयम् ।

 यथेति । यद्यप्यलीकेऽनीलव्यावृत्तिरपि नास्ति तथापि नन्मते व्यावृत्तेरलीकतयाऽसतुख्यात्या तदुपस्थितेस्तत्प्रयोग इति भावः । संशयसामान्यलक्षणस्येति । पूर्व दूषितस्य विरुद्धोभयविधिविषयत्वादेरित्यर्थः । नन्वसाधारण धर्मजत्वमेव किमित्यादि पदसंग्राह्यं नोक्कमित्यत आह - असाधारणेति । तथा च तत् संशयलक्षणमेव नेति भावः ।


  1. समानधर्मजन्वादिकं
  2. ति चेन्न,