पृष्ठम्:न्यायलीलावती.djvu/४८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१४
न्यांयलीलावती


घेरुभयनिषेधवैशिष्टयस्य विषयत्वात् । दूरत्वात्तु [१]विशेषाग्रहे स्मृतिस्तयो[२] र्भावाभावयोरारोपात् । ऊर्ध्वत्वस्यैवोभयराशिसा-


न्यायलीलावतीकण्ठाभरणम्

तत्त्वस्फुरण इति दूषयति - दूरादिति । अनेन वैशेषिकमते संशयसाम ग्ज्येवोक्ता सन्निकर्षाभावादिति दोषमाहात्म्यप्रकाशनार्थ विकल्प

न्यायलीलावतीप्रकाशः

तत्रातिव्याप्तिः । यद्वा एकस्मिन् धर्मिणि विरोधिनानाप्रकारकं ज्ञानं संशयः । न चैतल्लक्षणवाक्यजज्ञानेऽतिव्याप्तिः, तस्य विरोधिनानाप्रकारकत्वप्रकारकत्वात् संशये च विरोधिनोरेव प्रकारत्वात् । यद्वा विरोधिनानारूपावच्छिन्नविषयता प्रतियोगिज्ञानं संशयः। समूहालम्बने तु विरोधिप्रत्येक प्रकारावच्छिन्ना भिन्नैव विषयता न तु विरोधिनानारूपं निरूपितैकेति । तत्त्वस्फुरण इति दूषयति - दूरत्वादिति । विशेबाग्रहे धर्मिनिष्ठतथा व्यावर्त्तकधर्माग्रह इत्यर्थः । एतेन स्मर्यमाणारोपरूपे संशये कोटिस्मारकत्वेन समानदर्शनस्य हेतुत्वमुक्तम् । न च समानधर्मज्ञानं न संशयहेतुः, तस्य कोटिस्मरण एवोपक्षयात् तदन्तरेणापि संशयोपपत्तेश्चंति वाच्यम् । तुरगादौ वेगेन गच्छतः को-

न्यायलीलावती प्रकाशविवृतिः

नानावैशिष्ट्यविषयकज्ञानत्वमेव लक्षणम् । न चोक्कतर्केऽतिव्याप्तिः । पूर्वमेव निरस्तत्वादिति भावः । ननु संशयानुव्यवसायेऽतिव्याप्तिः । तस्यापि संशयविषयवैशिष्टयविषयकत्वादित्यरुचेराह – यद्वेति । विरोधित्वं भासमानविरोधकत्वमतो विरोधाभानकालीनस्था णुपुरुषसभुच्चये नातिव्याप्तिः । संशये चावश्यं विरोधभानात् । न चानध्यवसाये अतिव्याप्तिः । विशेषतो नानाप्रकारकत्वस्य विवक्षितत्वात् । नन्वाहार्यभ्रमातिव्याप्तिः । न चाहान्यत्वेन विशेषणमाहार्यसंशयाव्याप्तेरिति चेन्न, विरोधमानकालीन स्याहार्यज्ञानस्य संज्ञयतया सङ्ग्राह्यत्वात् । तद्भानकालनिस्य लक्षणायोगादिति दिक् | तस्येति । एतेन संशयानुव्यवसायातिव्याप्तिरपि परास्तेति भावः । अतिरिक्तविषयतामाश्रित्याह – यद्वेति । एकस्मिन्धर्मिणीति विशेषणं विरोधिवस्वं च प्रागिवातो न समुच्चयेऽतिव्याप्तिः । वस्तुतो विरोधिपदेन भावाभा-


  1. दूरादिति कण्ठागरणघृन पाठ ।
  2. स्मृतिस्थयोर्मा० ।