पृष्ठम्:न्यायलीलावती.djvu/४९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१६
न्यायलीलावती


पत्तेः । एकत्र घर्मिणि स्फुरितयोर्विरोधस्यैव [१]विकल्पविषयत्वात् । तस्यैव वाशब्देनाभिलापादिति सर्वं सुस्थम् । परस्परविरुद्धार्थावमर्श: संशय [२]इति लक्षणम् । [ इति मंशय: ।]


न्यायलीलावतीकण्ठाभरणम्

विषयं विवेचयनवाधारार्थमपि (?) विवेचयति – एकत्रेति । संशयविषय एवं विरोधो वाशब्देनाभिलप्यत इत्यर्थः । एककोटिपरिग्रहप्रश्ने ऽपि कथञ्चिद्विरोध एव वाकारार्थः । स गौरः श्यामो वेतिवत् । यद् द्रव्यं घटो वेतिप्रश्नानुदयात् । परस्परेति । ननु धूमाभाववानयं यदि धूमवान् स्याद् वह्नयभाववानयं वह्निमान् स्यादति तर्के अतिव्यापकमेतत् । किञ्च लक्षणवाक्यजन्यज्ञानेऽतिव्याप्तिस्तेनापि तादृशशानजननात् । न च जिज्ञासाजनकज्ञानवत्त्वं लक्षणम्, उपेक्षणीयसंशयेऽव्याप्तेः, जनकतावच्छेदकप्रकारापरिचयाञ्च । परिचये वा तस्यैव लक्षणत्वात् । अनध्यवसायातिव्याप्तेश्वः । संस्काराजनकज्ञानत्वं च क्वचिन्निश्चयेऽतिव्यापकं तत्र निश्चयत्वेनैव संस्कारजननयोग्यतेति चेत्, न, स्थाणुपुरुषसंशयानन्तरं स स्थाणुः पुरुषो वेति स्मृतिसम्भवेन संशयस्यापि संस्कारजनकत्वात् तन्न स्मरणं किन्तु संशय एवायमपरो न हि चक्षुरादिसन्निकर्षावश्यकत्वं संशये विधुत्सम्पतनादौ धम्मिदर्शनानन्तरं तादृशमानससंशयाद्यनुभवादिति चेन्न, निश्चयव्यावृत्तेन रूपेण संस्काराजनकत्वस्यैवाग्रहात् । न च संशय-

न्यायलीलावतीप्रकाशः

त्वादित्यर्थः । तस्यैवेति । संशयविषयस्यैवेत्यर्थः । न चैवं धर्मिण्यपि वाकारान्वयः स्यात्तस्यापि विषयत्वादिति वाच्यम्, प्रकारस्यैव विषयत्वेन विवक्षितत्वात् । परस्परेति । एकस्मिन् धर्मिणीति शेषः । तेन न समूहालम्बनातिव्याप्तिः ।

न्यायलीलावतीप्रकाशविवृतिः

योग्यानुपलम्भस्याव्यभावज्ञानसामान्य कारणत्वमिति मूलार्थ इति भाति । अतीतत्वमर्थो न विवक्षित इत्याह - स्फुरितत्वमिति स्फुरणमित्यर्थः । तथा च स्फुरितो मूलार्थ इति भावः ।


  1. ०योराकारयोर्वि० ।
  2. परस्पर विरुद्धयोरवमर्श इति ल० ।