पाण्डवचरितम् ।
यद्वीक्ष्यते विपक्षाणां मानिभिः श्रीर्विपद्गतैः ।
स एव मृत्युरेतेषां मृत्युस्तु न तु जीवितम् ॥ ११३ ॥
अथ सत्यव्रतं बन्धोरनुपेक्ष्य शुभैस्तव ।
सामर्षा चायुधं धत्तः करे भीमार्जुनौ यदि ॥ ११४ ॥
ततो जानीहि संजातं भूमण्डलमपाण्डवम् ।
महार्णवमिवानीकं तव को हि स्खलिप्यति ॥ ११५ ॥
तदिमं शकुनमन्त्रं कर्णदुःशासनावपि ।
शंमन्यावनुमेनाते दुष्टात्मानो ह्यमी त्रयः ॥ ११६॥
ततोऽसाच्छकुनेमन्त्राढुष्टाशयतया तथा ।
युष्मदन्तिकमागन्ता कदाचन सुयोधनः॥ ११७ ॥
एवं विभाव्य मनसा सावधानतया भृशम् ।
युष्माभिः स्थेयमित्येतदुक्तं विदुरवाचिकम् ॥ ११८ ॥
विदुरेणेदमाख्याय यदाहं विहितः पुरा ।
इदं मया तदा पृष्टं कुत्र ते सन्ति पाण्डवाः ॥ ११९ ॥
विदुरेण समादिष्टं पूर्वेऽहि नृपसंसदि ।
आयातैरेकचक्रातश्चरैरावेदितं ह्यदः ॥ १२० ॥
एकचक्रास्थितैर्दैव शुश्रुवेऽस्माभिरीदृशम् ।
पुरस्य निखिलस्यास्य दत्ताः प्राणाः पृथात्मजैः ॥ १२१ ॥
चिरं नन्दन्तु भूयोऽपि राज्यं कुर्वन्तु पाण्डवाः।
सूर्याचन्द्रमसौ यावज्जीवन्त्वास्माकजीवितैः ॥ १२२
धन्या कुन्त्येव यत्कुक्षिसरसीसरसीरुहैः।
एमिः कृपाजपारामैरामोदितमिदं जगत् ॥ १२३ ॥
पुरीपाणहरः सोऽयं पापपङ्कबको वकः ।
अपरेणान्तरेणामून्किं प्रसह्य निगृह्यते ॥ १२४ ।।
प्रतिपन्थी यथास्माकममीभिर्लम्भितः क्षयम् ।
तथैषामस्मदाशीभिर्विपक्षः क्षीयतां क्षणात् ॥ १२५॥