[ भाष्यम् ]
प्रसंख्यानवतोऽदग्धक्लेशबीजस्य संमुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्य कुतः प्ररोहः इति । अतः क्षीणक्लेशः कुशल: चरमदेह इत्युच्यते । तत्र सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति । सतां क्लेशानां तदा बीजसामर्थ्यं दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोध इत्युक्ता प्रसुप्तिः दग्धबीजानामप्ररोहश्च ।
तनुत्वमुच्यते--प्रतिपक्षभावनोपहताः क्लेशास्तनवो भवन्ति । तथा विच्छिद्य विच्छिद्य तेन तेनात्मना पुनः पुनः समुदाचरन्तीति
[ विवरणम् ]
तत्रैतत् स्यात्, सर्वदैव क्लेशस्य बीजभावोपगमः प्रबोधश्च नियमेन स्यादिति । तत आह--प्रसंख्यानवतः सम्यग्दर्शनाभ्यासक्तः अदग्धक्लेशबीजस्य योगिनः संमुखीभूतेऽप्यालम्बने नासौबीजभावोपगमः । दग्धस्य दग्धत्वादेव कुतः पुनः प्रबोधः उद्भवः । विद्यमानस्य हि बीजस्य क्षितिजलादिसंयोगनिमित्तप्राप्तावङ्कुरीभावो न दग्धबीजशक्तेः, तथा क्लेशस्यापि ॥
यद्येवम्, एषा पञ्चमी कस्मादवस्था नोक्ता दग्धप्रसुप्ततनुविच्छिन्नोदाराणामिति--न--असाधारणत्वात् । न हि सर्वदेहिनां साधारणी पञ्चमी क्लेशावस्था । योगिन एव हि सा, तते नाम्नायते ॥
कथं वा असाधारणीति ? तत आह--तत्रैव सा सम्यग्दर्शनाभ्यासवत्येव दग्धा नान्यत्र । क्षीणक्लेशः कुशलश्चरमदेह इति सम्यग्दर्शन उच्यते योगी । तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था । सतां क्लेशानां तदानीं दग्धं बीजसामर्थ्यम् । यथा विद्यमानानां यवादिबीजानां भर्जितानां बीजसामर्थ्यं दग्धम् । विषयस्य सम्मुखीभावेऽपि न भवत्येषां प्रबोधः, सम्यग्दर्शिनः संस्कारशेषावस्थत्वादिषोरिव लक्ष्यविमुक्तस्य ॥
उक्ता प्रसुप्तिः । किञ्च दग्धबीजानां च क्लेशानामप्रबोधो योगिन उक्त इति । तनुत्वं इदानीं उच्यते--प्रतिपक्षभावनोपहताः प्रतिपक्षस्य शरीराद्यवद्यदर्शनादेः भावनयोपहताः अबलीकृता मन्दप्रभावाः क्लेशास्तनव उच्यन्ते ॥
तथा विच्छिद्य विच्छिद्यार्थान्तरोपजनकालान्तरालेषु स्वात्मानमप्रदर्शयन्तः तेन तेनात्मना येन रूपेण पूर्वमुपलब्धास्तेनैवात्मना समुदाचरन्ति पुनरुद्भवन्तीति विच्छिन्नाः ॥