पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/188

पुटमेतत् सुपुष्टितम्
१४१
साधनपादो द्वितीयः

[ भाष्यम् ]

 न चाननुभूतमरणधर्मकस्यैषा भवत्यात्माशीः । एतया च पूर्वजन्मानुभवः प्रतीयते । स चायमभिनिवेशः क्लेशः स्वरसवाही कृमेरपि जातमात्रस्य प्रत्यक्षानुमानागमैरसम्भावितो मरणत्रास उच्छेददृष्ट्यात्मकः पूर्वजन्मानुभूतं मरणदु:खमनुमापयति ।

 यथा चायमत्यन्तमूढेषु दृश्यते क्लेशः, तथा विदुषोऽपि विज्ञातपूर्वापरान्तस्य रूढः । कस्मात् ? समाना हि तयोः कुशलाकुशलयोर्मरणदु:खानुभवादियं वासनेति ॥ ९ ॥

[ विवरणम् ]

 किमेतयाऽऽशिषा अवगम्यत इत्याह-न चाननुभूतमरणधर्मकस्य भवत्येषा आत्माशीरिति । एतया च आत्माशिषा पूर्वजन्मानुभवः प्रतीयते । तदेतदुक्तं भवति-न ह्यननुभूते सुखे भवति प्रार्थना, नाप्यननुभूते दुःखे तत्परिहारवाञ्छा भवतीति । येनापि प्रत्यक्षानुमानाभ्यामननुभूतं मरणदुःखं तस्याप्यनयात्माशिषा पूर्वो मरणानुभवः प्रतीयते, सोऽपि नान्तरेण जन्मेति जन्मानुभवः । तया पूर्वः पूर्वो जन्ममरणानुभवोऽनादिरिति मतः । स चायमभिनिवेशः क्लेशः कृमेरपि जातमात्रस्येति ॥

 मरणानुभवकारणमाचष्टे-प्रत्यक्षानुमानागमैरसम्भावितो मरणत्रास उच्छेददृष्ट्यात्मक आत्मभोगोच्छेदप्रतिपत्तिहेतुः पूर्वजन्मानुभूतं मरणदु:खमनुमापयति । यथा चायमत्यन्तमूढेषु दृश्यते कृमिप्रभृतिषु क्लेशस्तथा विदुषोऽपि विज्ञातपूर्वापरान्तिकस्यापि पूर्वान्तिकं बन्धः अपरान्तिकं मुक्तिः । ज्ञातजन्ममरणान्तिकस्य वा रूढः । कस्मात् पुनर्मूढस्येव विदुषो रूढ इति, तत आह-समाना हि कुशलाकुशलयोर्विद्वदविदुषोर्मरणानुभवादियं वासना मरणभयवासना ॥ ९ ॥

 'क्लेशमूलः[१] कर्माशयः' ‘सति[२]मूले तद्विपाकः' इति वक्ष्यते । तस्मात्ते क्लेशा हातव्याः । हानार्थेश्च ते प्रदर्शिताः । तदवहानौ चोपायं वक्ष्यति--'ध्यान


  1. यो. सू.• पा- 2. सू. 12.
  2. यो. सू. पा. 2. सू. 13.