पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/११२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० प्रबोधचन्द्रोदयम् [तृतीयोऽङ्कः भविष्यति । ( विलोक्य विचिन्त्य च) आः, ज्ञातम् । महामोहप्र वर्तितोऽयं दिगम्बरसिद्धान्तः । तत्सर्वथा दूरे परिहरणीयमस्य दर्शनम् । (इति पराङ्मुखीभवति ।) <- करुणा – *सहि, मुहूत्तकं चिट्ट | जाव एत्थ सद्धां अण्णे- सामि । (उभे तथा स्थिते ।) (ततः प्रविशति यथानिर्दिष्टो दिगम्बरसिद्धान्तः ।) दिगम्बरः – ॐ णमो अलिहन्ताणम् । णवदुवालग्घल- मज्झे अप्पा दीवेव्व जलदि । एसो जिणवलभासिदो पलमत्थो

  • सखि, मुहूर्तकं तिष्ठ । यावदत्र श्रद्धामन्वेषयामि |

। ॐ नमोऽर्हद्भ्यः । नवद्वारपुरीमध्ये आत्मा दीप इव ज्वलति । ॐ नमो इत्यादि मागधीभाषा | प्रक्रिया तु पूर्वमेवोक्ता । दिगम्बरसिद्धान्ते Sङ्गुष्टपरिमाण एवात्मा हृत्पुण्डरीककोशमध्ये दीपवज्ज्वलतीति गृहाभ्यन्तरदी- पप्रभावदङ्गुष्ठमात्रस्यैव पुरुषस्य सर्वदेहव्याप्तेः सुखदु:खभोगाय भवतीति । अयमर्थः । सर्वो हि जनोऽहमिति प्रत्ययं हस्तेन हृदये परिमिनोति परिमाणतया दर्शयति । यस्तु विभुत्वेनात्मानं वदति तेनाप्ययं प्रत्ययो न वाध्यत इति कदा- चिदप्यस्य बाधाभावात्प्रामाण्यमिति विज्ञेयम् । तस्मात्परिच्छिन्नपरिमाण आत्मा स एवानादिवासनादिभिः सुखदुः दुःखभोगार्थ शरीरे निक्षिप्य बध्यते । तन्निवृत्तिश्च भगवतार्हता दर्शितैर्धमैः केशोब्रुञ्चनतप्तशिलारोहणादिभिर्जायते । तथा च दिगम्बरश्रुतिः—‘पञ्जरस्थः शुको यद्वद्विमुक्तो बन्धनाद्रजेत् । त्वरितं तद्वदे- विवरान्नरककुण्डादुत्तीणों निर्गत: । – आः ज्ञातमिति । महागोहप्रवर्तितो महामो- हप्रेषितः । [करुणा – सखि, मुहूर्तकं तिष्ठ | यावदत्र श्रद्धामन्वेषयामि ।] यथानिर्दिष्टो य एप इत्यादिना पूर्वमुक्तो दिगम्बरः । अस्य भाषा मागधी | मिक्षुक्षपणकराक्षसान्त:- पुरवान्तिचेटकादीनां मागधीत्युक्तमन्यत्र | [दिगम्बरः - नमो नमोऽर्हद्भ्योऽईन्च: । नवद्वारगृहमध्ये आत्मा दीप इव मन्तव्यः । एप जिनवरभाषितः परमार्थों मोक्ष- - — १ ' णमो णमो अलिहन्ताणं अलिहन्ताणं - अप्पा दीवव्व मन्तवो । – जिण- वलभासिदे पलमत्थे मोक्खसुखदे | (आकाशे) लेले सावका, सुणाध सुणाध-लिसि- पलिचलणेहि' इति पाठः ।