पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः प्रिया ॥' अत्र नान्द्यां कैश्चित्पदनियमोऽङ्गीकृतः - यथानर्घराघवादौ । कैश्चि- नाङ्गीकृतः तः- यथा शाकुन्तलादौ । अत उक्तं सरस्वतीविलासे– ‘पदादिनियमोऽपि वा' इति । अत्र वाशब्दो विकल्पार्थः । अत्रापरो विशेषः । यदा पदसंख्यानि- यमस्तदा शङ्खचक्रादि शब्दचिह्नियमः । यथोक्तमभिनवगुप्तपादैः– नान्दी पदैर्द्वादशभिरष्टाभिर्वाप्यलंकृता । षड्भिः षोडशभिवपि चतुर्भिस्त्रिभिरेव वा ॥ अष्टादशपदा नान्दी द्वाविंशतिपदापि वा । शङ्खचक्राब्जचन्द्रेन्द्रचकोरैरव- तंसिनी ॥ त्र्यत्रा वा चतुरस्रा वा तालमार्गानुसारिणी ॥' इति । अयमाशयः- त्र्यस्नतालानुसारेण त्रिपदा षट्पदा । चतुरस्त्रतालानुसारेण चतुष्पदा अष्टपदा षोडशपदा चेति । द्वादशपदाया नान्याख्यसतालानुसारित्वम् । अत ऊर्ध्व षट्- पदानां चतुरस्रतालानुसारित्वमिति विवेकः । अत्राद्याया नान्याः द्वाविंशतिपदा- त्मकत्वात् षोडशपदपर्यन्तं चतुरस्रतालानुसारिलम् । अत ऊर्ध्वं षण्णां पदानां त्र्यस्रतालानुसारित्वमिति ज्ञेयम् । द्वितीयाया नान्द्याः द्वादशपदात्मकत्वाच्चतुरस्र- तालानुसारित्वं त्रिचतुष्कात्मकत्वात्र्यनतालानुसारित्वं संभवतीति ज्ञेयम् । य थोक्तं सरस्वतीविलासे– 'उभयतालानुसारित्वे श्रेयो भवति' इति । अनेनैवा- भिप्रायेण ग्रन्थकारोऽपि नान्दीद्वयं तालद्वयानुसारित्वेन रचितवानिति ध्येयम् । पदनियमपक्ष एव चन्द्रादिपदनिवन्धनं नियमितमित्युक्तम् । अत एव ग्रन्थ- कारेण प्रथमनान्द्यां महःशब्देन प्रकाशवाचिना प्रकाशवाचि चन्द्रपदं स्मारितम् । तेन चन्द्रपदाङ्कनं सिद्धम् । द्वितीयनान्द्यां चन्द्रनामाङ्कनं स्पष्टम् । यथोक्तं भार- तीबिलासे–‘चन्द्रनामाङ्किता नान्दी रसानां संयतो निधिः । स्फीते चन्द्रमसि स्फीता श्रीवृतिप्रीतिकीर्तिदा ॥ इति । अत्र संगिणाचार्यैर्विशेष उक्त:- 'नाट्यस्य ऋतुरूपत्वात्कृत्यादी विहिता च या । नान्दी सैवात्र विज्ञेया चाक्षुषी श्रवणप्रिया॥' त्र्यस्रतालानुसारिणी 'आङ्गिकेनाभिनयेन सात्त्विकेन च चाक्षुषी | गीतानुसारिणा पद्यरूपेण श्रवणप्रिया' इत्याह सिङ्गभूपालः । यद्यपि श्लोकद्वयमेकीकृ त्य पादानां पदलखीकारेणाष्टापदा नान्दी कर्तुं शक्यते नान्यदेवाभिमतानुसा रिणा । तत्तु न संमतमस्माकम् । भरताचार्यैरभिनवगुप्तपादाचार्यैश्चालिखितलात् । यथोक्तं भरते – 'नमोऽस्तु सर्वदेवेभ्यो द्विजातिभ्यो नमोनमः | जितं सोमेन वै राज्ञा शिवं गोब्राह्मणाय च ॥ ब्राह्मोत्तरं तथैवास्तु हताः स्युर्ब्रह्मविद्विषः । प्रशा. न्तिस्त्वां महाराज पृथिवी समुपासतात् ॥ राज्यं प्रवर्धतां रङ्गे स्योना स- म्यक्प्रवर्धताम्’ । स्योना समृद्धिः । 'प्रेक्षाकर्तुर्महान्धर्मो भवतु ब्रह्म भावितुम् ॥ काव्यस्य कर्तुः श्रोतुश्च धर्मोऽस्यापि प्रवर्धताम् । पृथिवी सत्यसंपन्ना दोषा यान्तु 1 वतीति शेषः । तलक्षणं तु. – 'चतुरो नाट्यनिष्णातोऽनेकभूषासमावृतः । नाना- भाषणतत्त्वज्ञो नाट्यशास्त्रार्थतत्त्ववित् || नानागतिप्रचारज्ञो रसभाषाविशारदः ।