पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् तूष्णीमालम्बसे चेत्कथमपि वितता वत्स संहृत्य वृत्ती- र्भात्यादर्शे प्रसन्ने रविरिव सहजानन्दसान्द्रस्तदात्मा ॥ ३३ ॥ तद्भवतु । ज्ञातीनामुदकदानाय नदीमवतरामः । जलधरा मेघास्तैरेवोपप्लुतः । प्रच्छन्न इत्यर्थः । बुद्धिवृत्तिषु जाग्रत्स्वप्नसुषुप्तिषु विश्वतैजसप्राज्ञविराट्र्सूत्रात्मान्तर्यामिरूपेणैको देवो नानेव भाति नानाप्रकारा- वच्छिन्नो व्यक्तमूर्तिः सन् जलधेर्वाचिषु रविरिव भाति । तूष्णींभावमालम्बसे चेत् । उदासीनतया स्थितवेदित्यर्थः । कथमपि कृच्छ्रात् साधु सम्यक् वृत्ती- जग्रदादिकाः संहृत्य नाशयित्वा प्रसन्न आदर्शे रविरिव । तदा तूष्णींभावसमये आत्मा प्रत्यगात्मा सहजानन्दसान्द्रः सहजेनानन्देन सान्द्रो घनः । स्वरूपेणाव- स्थित इत्यर्थः । आदर्श प्रसन्न इत्यनेनात्मा निर्मलान्तःकरण एवं प्रतिभाति । यद्यपि सर्वगतस्य स्वयंप्रकाशस्यात्मनः सर्वत्र प्रतिभासो युक्त एव तथाप्या- त्मनो निर्विशेषत्वात्प्रतिभासहेत्वभावान्न प्रकाशते । प्रकाशहेतुसद्भावे प्रकाशत एव । प्रकाशहेतुर्निर्मलान्तःकरणम् । यथा राहोरदृश्यस्य दर्शन हेतुत्वाभा- वात्सर्वदा दर्शनं नास्ति । चन्द्रार्कसंबन्धरूपहेतुसद्भावे दर्शनमस्त्येव । यथोक्तं भगवता शेषेण – 'राहुरदृश्योऽपि यथा शशिबिम्बस्थः प्रकाशते जगति । सर्वगतोऽपि तथात्मा बुद्धिस्थो दृश्यतामेति ॥' अत उक्तः प्रसन्नदर्पणदृष्टान्तः । अत्र निरपायेन बोधोदयद्वारा ब्रह्मप्राप्तिर्भविष्यतीत्यापादनान्नियताप्तिर्नाम विमर्शसन्धेः प्राधान्यांशः सूचितो भवतीति । तदुक्तम् – ‘अपायाभावतः प्राप्तिर्नियताप्तिः सुनिश्चिता' इति । अपायराहिल्यान्निःसन्देहं कार्यप्राप्तिः निय- ताप्तिरुच्यत इत्यर्थः । नियताप्तिप्रकर्षयोः सन्धानात्मको विमर्शसन्धिः साङ्गो निरूपितः ॥ ३३ ॥ तद्भवत्वित्यादि । ज्ञातीनां कामादीनामुदकदानाय ॐ न्योऽपि त्वत्सङ्गात्त्वदुपकॢप्तविषययोगात् प्रभवलयौ जन्ममृत्यू तावेव जरा तयोपप्लुतः पृथक्कृत: बुद्धिवृत्तिषु नानेव बहुधेव । तत्र दृष्टान्तः । जलधे: समुद्रस्य वीचिषु ल- हरीषु पवनारफालितासु व्यस्ता भिन्ना मूर्तिर्यस्य एतादृशो रविरिव । यथा रविरेक एव लहरीक्षोभान्नाना एवमात्मा बुद्धिवृत्तिद्युतिबिम्बितत्वान्नानेत्यर्थः । उक्तं च – 'एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकथा बहुधा चैव दृश्यते जलचन्द्रवत्' इति । किंच हे वत्स, कथमपि केनापि प्रकारेण वितता विस्तृता विषयेषु वर्तमाना वृत्तीः संहृत्य संक्षिप्य तूष्णीं निवृत्तिमालम्बसे चेदङ्गीकरोषि चेत्तदा सहजानन्दसान्द्रः स्वाभाविकविज्ञानधन आत्मा भाति प्रकाशते । कस्मिन्क इव । प्रसन्ने निर्मले आ दर्श आ समन्तादृश्यतेऽस्मिन्नित्यादशों जलादिः तस्मिन्नित्यर्थः । निर्मलजलतैलादौ यथा रविर्भाति तथा निर्मलासु बुद्धिवृत्तिष्वात्मेत्यर्थः ॥ ३३ ॥ उपसंहरति तद्भव- १८ 2010