पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० प्रबोधचन्द्रोदयम् स्वभावलीनानि तमोमयानि प्रकाशयेद्यो भुवनानि सप्त । [ षष्ठोऽङ्कः तमेव विद्वानतिमृत्युमेति नान्योऽस्ति पन्था भवमुक्तिहेतुः ॥ १७ ॥ पुरुषः - ततस्ततः । उपनिषत् ततो यज्ञविद्यया विमृश्योक्तम् । सखि, त्वत्संनि- कर्षात् दुर्वासनोपहतैरस्मदन्तेवासिभिः कर्मसु लथादरैर्भवितव्यम् । तत्प्रसीदतु भवती स्वाभिलषित देशगमनाय । - पुरुषः - ततस्ततः । उपनिषत् — ततोऽहं तामतिक्रम्य प्रस्थिता । पुरुषः - ततस्ततः । - अबोधप्रभवमित्यादिना । अज्ञानमूलत्वात्संसारस्य, अज्ञानस्य च ज्ञानेनैव निवृत्तेर्न कर्मणा संसारनिवृत्तिरिति भावः । विमतमज्ञानं ज्ञानैकनिवर्त्यमज्ञानमूलवात् शुक्ति- रजतवदित्यनुमानेन सूचितमिति वेदितव्यम् । ज्ञानादेव मुक्तिरिति । अत्र उपनिष दर्थमप्युदाहरति—स्वभावेत्यादि । स्वभावेन लीनानि जडानि । यतस्तमोम- यानि परस्परं प्रकाश्यप्रकाशकत्वानहा॑णि । प्रकाशान्तरापेक्षाणीत्यर्थः । तानि सप्त भुवनानि यः प्रभासयेत्प्रकाशयेत्स्वात्मावगतप्रकाशसंसर्गेण भासयेत् । 'तमेव भा- न्तमनु भाति सर्वं तस्य भासा सर्वमिदं विभाति' इति श्रुतेः 'तमेवं विद्वानमृत इह भवति । नान्यः पन्था विद्यतेऽयनाय' इति श्रुतेः । अतिमृत्युमेतीत्यन्वयः ॥ १७॥ मोऽन्धतमसमपनेतुं तिरोधातुमिच्छतीत्यर्थः । कारणाभावेऽपि कार्यं भवत्विति जल्पन्ती मन्दतमेति भावः । ननु आत्माज्ञानादाविर्भूतं विश्वं ज्ञानादेव तिरोभवति । ज्ञानाज्ञान- योरेव बाध्यबाधकभावो दृष्टः शास्त्रे न कर्मज्ञानयोः । 'ज्ञानमज्ञानस्य घातकम्' इति श्रुतेर्वस्तुज्ञानादेवाज्ञाननाश इत्यभिप्रेत्य राजा आह - स्वभावेति । स्वभाव- लीनानि नवराणि तमोऽज्ञानं तन्मयानि तत्स्वभावानि एतादृशानि सप्त भुवनानि यः स्वरूपप्रकाशेन प्रकाशयेत्प्रकटीकुर्यात्, तमेव स्वप्रकाशं विश्वसाक्षिणं विद्वान् तमेव जानन् अतिमृत्युं मृत्युमतिक्रान्तं परं ब्रह्मेति प्राप्नोति । इतराभिहितं नात्मज्ञानं मो- क्षहेतुरिति मतं निरस्यति । नान्योऽस्तीति । भवः संसारस्तरमाद्या मुक्तिस्तद्धेतुः पन्था उपायो नान्योऽस्तीत्यर्थ: । 'तमेव विदित्वातिगृत्युमेति नान्यः पन्था विद्यतेऽय- नाव' इति श्रुतेः ॥ १७ ॥ विमृश्य विचार्य । दुर्वासनोपहतैर्दुर्बुद्धिग्रस्तैरन्तेव।सिभिः