पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपि च प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः 11 अद्याप्युन्मदयातुधानतरुणीचञ्चत्करास्फालन- व्यावल्गन्नू कपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः । उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिल- प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः ॥ ५ ॥ वस्तुनो वापि नाम्नावलगितं हि तत् ॥' अत्र वस्तुसूचनम् । तथाहि । गोपालो भूमिपालान्कर्णादीञ्जित्वा कीर्तिवर्माण नरपतिं साम्राज्ये स्थापितवान् इय- नेनाप्रस्तुतकथनेन विवेको महाराजो महामोहमुख्यान्त्रिपूजिला पुरुषाख्यं स्वामिनं स्वाराज्ये प्रबोधरूपे स्थापितवानिति प्रस्तुतार्थसूचनात् ॥ ४॥ - अद्यापीत्यादि । उन्मदानां मत्तानां यातुधानतरुणीनां चञ्चच्छोभमानं कराणां हस्तानामास्फाल- नमन्योन्यसंघट्टनं तेन व्यावल्गन्ति प्रेसन्ति च तानि नृकपालानि च ता- न्येच तालाः कांस्यनिर्मिततालविशेषा घट्टनसंज्ञकास्तेषां रणितैर्ध्वनिभिर्नृत्यन्त्यः पिशाचाङ्गना यासु रणक्षोणिषु ताः, प्रचण्डानिलेन क्षुभ्यन्ति करिकुम्भा एव कूटानि पर्वतशिखराणि तेषां कुहराणि गहराणि तेषु व्यक्तैरभिव्यक्तैर्विततैर्मु- खरैर्नादैर्यस्य यशांस्यद्याप्युद्गायन्ति इत्येतत्सर्वं विदितं भवत्या इत्यन्वयः। उद्गानं नाम नृत्यतालानुकारि गानम् । यथोक्तमभिनवगुप्तेन – 'नृत्यतालानुकारि स्या द्वानमुद्गानमुच्यते' इति । अत्र समासोक्तिरलंकारः । रणक्षोणिषु गायकस्त्री- लाशेपणेन लौकिके वस्तुनि नाटकीयवस्तुसमारोपात् । 'विशेषणानां तौल्येन यत्र प्रस्तुतवर्णनात् । अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते ॥” इति । अतिशयोक्तिरप्यत्रालंकारः । क्षोणीनामुगानासंबन्धेऽपि संबन्धोत्तया असंबन्धे ४ भूयः साम्राज्येऽभ्यषेत्र्यभिषिक्तः । किं कृत्वा । असिलतैव खड्गवलचैव मित्रं सहाय- स्तन्मात्रेण भूमिपालान्प्रसभं हठेन जित्वा । खड्ग एव तस्य सहायो नान्य इत्यर्थः । || — तस्य कीर्लन्तरमप्याह – अपि चेति । अद्यापीति । रणक्षोणय: संग्रामभूमयः । विततैर्विस्तृतैर्नादैः शब्दैरद्यापीदानीमपि यस्य यशांस्युद्गायन्ति । कीदृशैर्नादैः । प्रचण्डानिलेन महाबायुना प्रक्षुभ्यन्तो ये करिणस्तेषां कुम्भा गण्डस्थलानि तेषां कूटं समूहरतस्य कुहराणि बिलानि तेषु व्यक्तैः प्रकटैः वायुपूर्णानि हस्तिकुम्भस्थलानि शुष्काणि ध्वनन्तीति भावः । पुनः । कीदृशैः । उन्मदा उत्कृष्टमदयुक्ता या यातुधानतरुण्यो राक्षसस्त्रियस्तासां चञ्चन्तो दीप्ति मन्तो ये करास्तेषामास्फालनं परस्पराधातः करतालिकारूपस्तेन व्यावलगन्ति च लानि यानि नृकपालानि तान्येव ताला वाद्यविशेषास्तेषां रणितानि शब्दितानि