पुटमेतत् सुपुष्टितम्
१८०
बृहत्स्तोत्ररत्नाकरे -प्रथमभागः
या गतिस्सांख्ययोगानां व्रजन्ते तां गतिं तथा ।
स्तवमेनं प्रयत्नेन सदा रुद्रस्य सन्निधौ ॥१७३
अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् ।
एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् ॥१७४
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे।
मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत्॥१७५
महता तपसा प्राप्तं तण्डिना ब्रह्मसद्मनि ।
तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः॥१७६
वैवस्वताय मनवे गौतमः प्राह माधव ।
नारायणाय साध्याय मनुरिष्टाय धीमते ॥ १७७
यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः।
नाचिकेताय भगवानाह वैवस्वतो यमः॥ १७८
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ।
मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन ॥१७९
तवाप्यहममित्रनघ्न स्तवं दद्यां ह्यविश्रुतम् ।
स्वर्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् ॥ १८०