पृष्ठम्:मनोहरकाव्यमाला.pdf/१४

एतत् पृष्ठम् परिष्कृतम् अस्ति

रामवनगमनम् वनवासादेशः

स ददशंसने रामो विषण्णं पितरं शुभे।
कैकेय्या सहित दीनं मुखेन परिशुष्यता ॥१॥
स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् ।
ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥२॥
रामेत्युक्त्वा तु वचनं वाष्पपर्याकुलेक्षणः ।
शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ।। ३ ॥
तदपूर्व नरपतेदृष्ट्रा रूपं भयावहम् ।
रामोऽपि भयमापन्नः पदा स्पृष्ट्येव पन्नगम् ॥ ४॥
इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम् ।
निःश्वसन्तं महाराजं व्यथिताकुलचेतसम् ॥ ५ ॥
ऊर्मिमालिनमक्षोभ्यं तुभ्यन्तमिव सागरम् ।
उपप्लुतमिवादित्यमुक्तानृतमृर्षि यथा ॥६॥
अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन् ।
बभूव संरब्धतरः समुद्र इव पर्वणि ॥ ७ ॥
चिन्तयामास चतुरो रामः पितृहिते रतः।
किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥६॥
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति ।
तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥४॥
स दीन इव शोकातों विषण्णवदनद्यतिः।
कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥१०॥
कञ्चिन्मया नापराद्धमशानायेन मे पिता।
कुपितस्तन् ममाचक्ष्व त्वमेवैनं प्रसादय ॥ ११ ॥