पृष्ठम्:मनोहरकाव्यमाला.pdf/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति

तथाश्वासय ह्रीमन्तं किं न्विदं यन्महीपतिः ।
वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति ॥५०॥
गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः ।
भरतं मातुलकुलादद्यैव नृपशासनात् ॥ ५१ ॥
दण्डकारण्यमेषोऽहं गच्छाम्येव हि सत्वरः ।
अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश ॥ ५२ ॥
सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकेयी।
प्रस्थानं श्रद्दधाना सा त्वरयामास राघवम् ॥५३ ॥
एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः ।
भरतं मातुलकुलादिद्दावर्तयितुं नराः ॥ ५४॥
तव त्वहं तमं मन्ये नोत्सुकस्य विलम्बनम् ।
राम तस्मादितः शीघ्रं धनं त्वं गन्तुमर्हसि ॥ ५५ ॥
व्रीडान्वितः स्वयं यश्च नृपस्त्वां नाभिभाषते ।
नैतत् किंचिन् नरथेष्ठ मन्युरेषोऽपनीयताम् ॥ ५६ ॥
यावत् त्वं न वनं यातः पुरादस्मादतित्वरन् ।
पिता तावन्न ते राम नास्यते भोक्ष्यतेऽपि वा ॥ ५७ ॥
धिक् कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः ।
मूर्च्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते ॥ ५८ ॥
रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः ।
कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः ॥ ५६ ॥
तदप्रियमनार्याया वचनं दारुणोदयम् ।
श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत् ॥ ६॥
नाहमर्थपरो देवि लोकमावस्तुमुत्सहे ।
विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम् ॥ ६१ ॥
यत्तत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया ।
प्राणानपि परित्यज्य सर्वथा कृतमेव तत् ॥ १२ ॥