पृष्ठम्:मनोहरकाव्यमाला.pdf/१९

एतत् पृष्ठम् परिष्कृतम् अस्ति

न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम् ।
यथा पितरि शुश्रूषा तस्य वा वचनक्रिया ॥ ६३ ॥
अनुक्तोऽप्यत्रभवता भवत्या वचनादहम् ।
वने वत्स्यामि विजने वर्षाणीह चतुर्दश ॥ ६४ ॥
न नूनं मयि कैकेयि किंचिदाशंससे गुणान् ।
यद्राजानमवोचस्त्वं ममेश्वरतरा सती ॥ ६५ ॥
यावन् मातरमापृच्छे सीतां चानुनयाम्यहम् ।
ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम् ॥६६॥
भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा ।
तथा भवत्या कर्तव्यं स हि धर्मः सनातनः ॥ ६७ ॥
रामस्य तु वचः श्रुत्वा भृशं दुःखगतः पिता ।
शोकादशक्नुवन्वक्तुं प्ररुरोद महास्वनम् ॥ ६८ ॥
वन्दित्वा चरणौ राज्ञो विसंज्ञस्य पितुस्तदा ।
कैकेय्याश्चप्यनार्याया निष्पपात महाद्युतिः ॥ ६६ ॥
स रामः पितरं कृत्वा कैकेयी च प्रदक्षिणम् ।
निष्क्रम्यान्तः पुरात् तस्मात् स्वं ददर्श सुहृजनम् ॥ ७० ॥
तं वाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह ।
लक्ष्मणः परमकद्धःसुमित्रानन्दवर्धनः ॥ ७१ ॥
आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम् ।
शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन् ।। ७२ ॥
न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति ।
लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षयः। ७३ ॥
न वनं गन्तुकामस्य त्यजतश्च वसुन्धराम् ।
सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ ७४ ॥
प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते ।
विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान् ॥ ७५ ॥