पृष्ठम्:मनोहरकाव्यमाला.pdf/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्दश हि वर्षाणि वत्स्यामि विजने वने ।
कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ॥ २१ ॥
भरताय महाराजो यौवराज्यं प्रयच्छति ।
मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥ २२ ॥
स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने ।
आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ॥ २३ ॥
सा निकृत्तेव सालस्य यष्टिः परशुना वने ।
पपात सहसा देवी देवतेव दिवश्च्युता ॥ २४ ॥
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ।
रामस्तूत्थापयामास मातरं गतचेतसम् ॥ २५ ॥
उपावृत्त्योत्थितां दीनां वडवामिव वाहिताम् ।
पांसुगुण्ठितसर्वाङ्गी विममर्श च पाणिना ॥ २६ ॥
सा राघवमुपासीनमसुखार्ता सुखोचिता ।
उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ २७ ॥
यदि पुत्र न जायेथा मम शोकाय राघव
न स्म दुःखमतो भूयः पश्येयमहमप्रजा ॥२८॥
एक एव हि वन्ध्यायाः शोको भवति मानसः।
अप्रजास्मीति सन्तापो न हन्यः पुत्र विद्यते ॥ २६ ॥
न दृष्टपूर्वे कल्याणं सुखं वा पतिपौरुषे ।
अपि पुत्रे विपश्येयमिति रामास्थितं मया ॥ ३० ॥
सा बहन्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् ।
अहं श्रोष्ये सपत्नीनामवराणां परा सती ॥ ३१ ॥
अतो दुःखतरं किं नु प्रमदानां भविष्यति ।
मम शोको विलापश्च यादृशोऽयमनन्तकः ।। ३२॥
त्वयि सन्निहितेऽप्येवमहमासं निराकृता।
किं
पुनः प्रोषिते तात ध्रुवं मरणमेव मे ॥ ३३ ॥