अपि च,--
केशवगात्रश्यामः कुटिलबलाकावलीरचितशङ्खः । |
एता निषिक्तरजतद्रवसंनिकाशा |
संसक्तैरिव चक्रवाकमिथुनैर्हंसैः प्रडीनैरिव |
एतत् तद् धृतराष्ट्रवक्त्रसदृशं मेघान्धकारं नभो । |
( विचिन्त्य ) चिरं खलु कालो मैत्रेयस्य वसन्तसेनायाः सकाशं गतस्य । नाद्याप्यागच्छति ।
( प्रविश्य )
विदूषकः--अहो गणिआए लोभो अदक्खिणदा अ, जदो ण कधा वि किदा अण्णा । अणेकहा सिणेहाणुसारं भणिअ किं पि, एवमेअ गहिदा रअणावली । एत्तिए ऋद्धीए ण तए अहं भणिदो -अज्ज-
संमतः । खं आकाशम् ॥ २ ॥ केशवेति ।। ३ ।। एता इति । निषिक्तं द्रावितम् ॥ ४ ॥ संसक्तैरिति । प्रडीनैरिति कर्मणि क्तः ( ? )। व्याविद्धैर्भ्रान्तैः । चक्रं समूहः । पत्रस्य छेदः खण्डनं विचलं (?) यत्र चित्रे तत्पत्रछेद्यं चित्रम् । तदिव गगनं शोभते ॥ ५ ॥ एतदिति । धृतराष्ट्रवक्त्रसदृशं नष्टच- न्द्रार्कत्वात् । वा इवार्थे । शिखी मयूरः । वनादिति त्यलोपे कर्मणि पञ्चमी ।
पाठा०---१ अणाअरेण ज्जेब्व अभणिअ (=अनादरेणैवाभणित्वा ).