पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/१७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य-विवेकानन्दः ● शताधिका जनाः तस्य स्वागतार्थम् एकत्र समाययुः । महासम्भ्रान्ताः, अमीर-उमराहा, उच्चपदस्था: राजकर्मचारिणः, राजपरिषदो वाक्कीलाः ( वकील ), अध्यापका:, शिक्षकाः धनिनः, व्यापारिणः सर्वेऽपि समा- जग्मुः। सर्वे राजसम्मानेन परिव्राजकाचार्यस्य स्वागतमाचरन् । १६८ स्वामिनो निवासस्थाने अगणितमनुष्याणां सम्मर्द आसीत् । शतशो जनाः स्वामिनो दर्शनं तथा उपदेशं प्राप्तुं सलालसा बभूवुः । फरवरी-मासे एकादशदिवसे प्रातः नगरस्य एकशतं प्रतिष्ठिता नागरिका: दुग्धं फलं मिष्टान्नादि समादाय स्वामिनः स्वागतं कुर्वन्तः एकं भाषणं दातुमनुरोधमकुर्वन् । सर्वेषामाग्रहेण तेन सम्मतिः देया बभूव । १३ ता० दिने महबूबकालेजे सहस्रशो मनुष्याः समेता अभूवन् । अनेके आंगला अपि समाययुः । पण्डितरतनलालः सभापतिः अभवत् । स्वामिनां दर्शनमात्रेण सर्वेषां हृदि गाढा श्रद्धा उत्पन्ना | भाषणस्य विषय आसीत् - "My mission in the West”– 'मम पाश्चात्त्य देशगमनस्य उद्देश्यम् ।' तस्य भाषणं श्रुत्वा सर्वे श्रोतारः आश्चर्यचकिताः समभूवन् | तस्य विशुद्धा आंगलभाषा, गभीरं पाण्डित्यम् तथा वक्तृत्वशक्तिः इति सर्व लोकोत्तरमवर्तत । स हिन्दुधर्ममहत्त्व सम्बन्धे - जगाद - हिन्दुसभ्यताया उत्कर्षदिवसे भारतस्य शिक्षा तथा साधना कियदूदूरं सर्व समुन्नतमभवत् इदमपि प्रादर्शयत् । वैदिके युगे तथा तत्परवर्ति-युगे च उन्नत्यवनत्योः इतिहासं उदाहृत्य वर्तमानाधः- पतनस्य * चित्रमुपस्थापितं चकार । सर्वान्ते स पाश्चात्त्यदेशगमनस्यो- द्देश्यं प्रकटयन् अभाषत -- यत् स सनातन वैदिकधर्मस्य विलुप्तगौरव- समुद्धार-संकल्पं गृहीत्वा धर्मप्रचारकरूपेण पाश्चात्त्यदेशान् जिगमिपति |

  • भारतस्य जाती यजीवने वर्तमानाधःपतनकारणस्य सम्बन्धे स्वामिनोऽनेका

उक्तयः प्राप्यन्ते । समाजस्य नेतृवृन्दस्य तथा राष्ट्रपरिचालकानां दृष्टिः तदभिमुखमाकृष्टा चेत् तदा जातीयजीवनं व्याधिमुक्तं सत् स्वस्थं तथा सबलञ्च भवितुं शक्नुयात् । अस्याधःपतनस्य वयमेव प्रतिभुवः । अस्माभिः स्वगौरवोज्ज्वलम्