पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६५ स्वामिविवेकानन्दस्तोत्राणि स्वामिविवेकानन्दवन्दना मूर्तमहेश्वर मुज्ज्वलभास्करमिष्टममरनरवन्द्यम् । वन्दे वेदतनुमुज्झितगर्हित काञ्चनकामिनीवन्धम् ॥ १ ॥ कोटिभानुकरदीप्तसिंहमहो कटितटकौपीनवन्तम् । अभीरभोर्हुकारनादितदिङमुख प्रचण्डताण्डवनृत्यम् ॥ २ ॥ भुक्तिमुक्तिकृपाकटाक्षप्रेक्षणमघदलविदलनदक्षम् । बालचन्द्रधरमिन्दुवन्द्यमिह नौमि गुरुविवेकानन्दम् ॥ ३ ॥ ( स्वामिविवेकानन्द शिष्य ) श्रोशरच्चन्द्रदेवशर्मणा विरचिता । श्रीविवेकानन्दस्तुतिः श्रीरामकृष्णपदपङ्कजचञ्चरीकः श्री सारदाऽभयमवाप्य विराजतेऽसौ । ज्योतिर्मयो विमलकान्तवपुर्न रेन्द्रो वेदान्तधर्मपरिशीलननित्यसिद्धः ॥ जगच्छून्यं पुण्यैश्चिरमतितरां पापकलितं जडीभूतं स्वान्तं प्रणयरहितं ग्लानिभरितम् । विवेकानन्दाख्यैरमृतसलिलैः सिक्तमकरोद् विवेकानन्दाख्यां नृवर ! सुतरामादितभवान् ॥ जगन्मातृसुधासिन्धौ भवान् सर्वान् न्यमज्जयत् । ब्रह्मज्ञाय नमः शश्वत् स्वामिने ब्रह्मचारिणे ॥ इति काव्यतीर्थ - न्यायाचार्येण पं० श्रीसिद्धेश्वरभट्टाचार्येण विरचिता श्रीविवेकानन्दस्तुतिः समाता । 1*0*1