रसगङ्गाधरः। ४५७ युगपदिति विशेषणाद्वक्ष्यमाणे पर्याये नातिव्याप्तिः । एवं च ग्रन्थान्तरगतानि लक्षणान्यतिप्रसक्तान्येव । यच्च 'किंचित्कार्यमारभमाणस्यासंभाविताशक्यवस्त्वन्तरनिर्वर्तनं स तृतीयो विशेषप्रकारः। एवं चैतदन्यतमत्वं विशेषालंकारसामान्यलक्षणम्' इति प्राञ्चः। तत्र प्रथमः प्रकारो द्विविधः-आधारान्तरगतत्वेनाधेयं वर्ण्यमानम्, निराधारत्वेन च । क्रमेणोदाहरणानि- 'अये राजन्नाकर्णय कुतुकमाकर्णनयन त्वदाधारा कीर्तिर्वसति किल मौलौ दशदिशाम् । त्वदेकालम्बोऽयं गुणगणकदम्बो गुणनिधे मुखेषु प्रौढानां विलसति कवीनामविरतम् ॥' अत्र दिङ्मौलिगतत्वेन । 'युक्तं तु याते दिवमासफेन्दौ तदाश्रितानां यदभूद्विनाशः । इदं तु चित्रं भुवनावकाशे निराश्रया खेलति तस्य कीर्तिः ॥' द्वितीयः प्रकारो यथा- 'नयने सुदृशां पुरो रिपूणां वचने वश्यगिरां महाकवीनाम् । मिथिलापतिनन्दिनीभुजान्तः स्थित एव स्थितिमाप रामचन्द्रः॥ तृतीयः प्रकारो यथा- 'कोदण्डच्युतकाण्डमण्डलसमाकीर्णत्रिलोकीतलं रामं दृष्टवतां रणे दशमुखप्राणापहारोद्यतम् । दुर्दर्शोऽपि नृणामभूदुरुमरुद्वेगप्रचण्डीकृत- ज्वालाभिर्जगतीतलं कवलयन्कालानलो गोचरः॥' अत्र रामदर्शनं कुर्वतां कालानलदर्शनरूपाशक्यवस्त्वन्तरनिर्वर्तनम् । ननु- 'लोभाद्वराटिकानां विक्रेतुं तक्रमानिशमटन्त्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥' इति वक्ष्यमाणप्रहर्षणविषमालंकारयोगे तृतीयप्रकारस्यास्यातिव्याप्तिः । दधिविक्रयमारभमाणाया नीलमणिप्राप्तिवर्णनादिति चेत्, न । अत्र चाश- ५८
पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४६८
एतत् पृष्ठम् परिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/2c/%E0%A4%B0%E0%A4%B8%E0%A4%97%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A7%E0%A4%B0%E0%A4%83_%28%E0%A4%A8%E0%A4%BE%E0%A4%97%E0%A5%87%E0%A4%B6%E0%A4%AD%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%9F%E0%A5%80%E0%A4%95%E0%A4%BE%E0%A4%B8%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%83%29.pdf/page468-1024px-%E0%A4%B0%E0%A4%B8%E0%A4%97%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A4%BE%E0%A4%A7%E0%A4%B0%E0%A4%83_%28%E0%A4%A8%E0%A4%BE%E0%A4%97%E0%A5%87%E0%A4%B6%E0%A4%AD%E0%A4%9F%E0%A5%8D%E0%A4%9F%E0%A4%95%E0%A5%83%E0%A4%A4%E0%A4%9F%E0%A5%80%E0%A4%95%E0%A4%BE%E0%A4%B8%E0%A4%B9%E0%A4%BF%E0%A4%A4%E0%A4%83%29.pdf.jpg)