पृष्ठम्:रामायणमञ्जरी.pdf/१०९

पुटमेतत् सुपुष्टितम्
१००
काव्यमाला ।


तमब्रवीत्सत्यसंधो रामः काममलुप्तधीः ।
उचितं भाषसे भ्रातः श्रुतस्याभिजनस्य च ॥ २५१ ॥
किं तु राजा गुरुर्वृद्धः सत्यपाशवशीकृतः ।
पालने नियमस्यास्य प्रमाणीक्रियते मया ॥ २५२ ॥
यथाहं शासनात्तस्य त्यक्त्वा राज्यं वने स्थितः ।
तथा त्वयापि कर्तव्यं राज्यं भ्रातर्ममाज्ञया ॥ २५३ ॥
वरप्रदानसत्येन वृद्धस्य पृथिवीपतेः ।
अस्मद्वात्सल्यमात्रेण मा कृथाः सत्यविप्लवम् ॥ २५४ ॥
भज राज्यं क्रमायातं प्रजानामेव भूतये ।
क्रियतां सत्यसाहाय्यं परलोकगतौ पितुः ॥ २५५ ॥
एतदर्थं समीहन्ते पितरो बहुपुत्रताम् ।
यद्येकोऽपि गयां गत्वा तिमिरात्तारयिष्यति ॥ २५६ ॥
सत्यं रक्ष पितुः पुत्र सत्यं सत्ययशोनिधेः ।
सत्यं तीर्थतपोदानयज्ञेभ्योऽपि विशिष्यते ॥ २५७ ॥
इति रामस्य वदतो व्यथिते भरते पुनः ।
शल्यविद्ध इवावाप्ते मर्मणि क्षिप्रमूढताम् ॥ २५८ ॥
प्रजानां हितमाशंसं जाबालिरवदन्मुनिः ।
प्रतिज्ञापाशनिर्बन्धं रामस्य च्छेत्तुमुद्यतः ॥ २५९ ॥
अहो नु भ्रमते नूनं परतन्त्रस्य ते मतिः ।
शुष्कक्रियावासनया सूक्ष्ममर्थं न पश्यसि ॥ २६० ॥
जन्मोपकरणं माता जन्मोपकरणं पिता ।
प्रीतिमात्रोपकरणं सुहृत्स्वजनबान्धवाः ॥ २६१ ॥
ममायमहमस्येति संबन्धोऽयं निरर्थकः ।
आत्मैव सुखदुःखानां भोक्ता नान्यः शरीरिणाम् ॥ २६२ ॥
संसारवर्त्म पान्थानामनिशं परिसर्पताम् ।
देहिनां पितरो नाम जन्ममात्रप्रतिस्रुवः ॥ २६३ ॥


१. 'षितं राम्यं' ख. २. 'व' शा०. ३. 'मन' शा०. ४. 'श्रयः' शा०.