पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: १०५] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३९३ अत्येति रजनी या तु सा न प्रतिनिवर्तते || यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ १९ ॥ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह || आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ २० ॥ आत्मानमनुशोच त्वं किमन्यमनुशोचसि ॥ आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २१ ॥ सहैव मृत्युर्वजति सह मृत्युर्निषीदति ॥ गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते ॥ २२ ॥ गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः ॥ जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ २३ ॥ नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ॥ आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ||२४|| हृष्यन्त्यृतुमुखं दृष्ट्वा नवनवमिहागतम् || ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः ॥ २५ ॥ यथा काष्ठं च काष्ठं च समेयातां महार्णवे ॥ समेत्य च व्यपेयातां कालमासाद्य कंचन ॥ २६ ॥ एवं भार्याच पुत्राश्च ज्ञातयश्च धनानि च ॥ समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ २७ ॥ नात्र कश्चिद्यथाभावं प्राणी संमभिवर्तते || तेन तस्मिन्न सामर्थ्य प्रेतस्यास्त्यनुशोचतः ॥ २८ ॥ यतियथेत्यादिना ।। १७–१८ || समुद्रस्योदकाकुल- | न्ति । जीवितकालएवपरलोकहितंकर्तुनेच्छन्तीत्यर्थः त्वविशेषणं यमुनाया:सर्वथाऽनिवर्यत्वाय ॥ १९ ॥ २४ ॥ तत्तदृत्वागमंदृष्ट्वा नानाभोगहेतुरितिहृष्य - गच्छन्तीतिप्रथमाबहुवचनमहोरात्र विशेषणं । अंशवः न्ति । प्रत्युतऋत्वागमोऽनर्थहेतुरित्याह — ऋतूनां सूर्यस्येतिशेषः ॥ २० ॥ शोकविषयंनिर्धारयति – परिवर्तेनेति ॥ २५ ॥ लिष्टानांविश्लेषस्यावश्यंभा आत्मानमिति । आयुस्ते यतोहीयते अतःपरलोकचि - वित्वात्तदपिनशोचनीयमित्यभिप्रायेणाह – यथाकाष्ठ- न्तामेवकुर्वित्यर्थः ॥ २१ ॥ मृत्युः सर्वथादुष्परिहरइ- मितिश्लोकद्वयेन | विनाभवः वियोगः ||२६-२७॥ त्याह—सह्रैवेति ॥ २२ ॥ कालान्तरेतथैवकरिष्या- मीत्यत्राह — गात्रेष्वित्यादिना । तस्माद्वाल्यएवआत्म- ज्ञानाययतेतेत्युक्तंभवति । किंहिकृत्वा पूर्वोक्तोपद्रवपरि- हारत्वेनकमुपायंकृत्वा आत्मानंप्रभुंकुर्यादित्यर्थः ||२३|| बाल्येपिपुरुषाणांविवेकोदुर्लभइत्याह – नन्दन्तीत्यादि- ना । आदित्येउदितेनन्दन्ति अर्थार्जनकालोयमागत- इति । रवौ अस्तमितेपिनन्दन्ति कामोपभोगकालोय - 'मागतइति । आमनोजीवितक्षयंनावबुध्यन्ते सच्छि- द्रघटेगृहीतंजलमिवप्रतिक्षणमायुःक्षीयतइतिनजान- अस्मिँल्लोके कश्चिदपिप्राणी यथाभावनसमभिवर्तते य थाभिलाषंबन्धुभिः सहनवर्तते । तेनकारणेन प्रेतस्य मृतस्यहेतोः । अनुशोचतः पुरुषस्य तस्मिन् मरणनि- वारणे | सामर्थ्यनास्ति । [ अस्मिन्बद्धलोकेकश्चिदपि ब्रह्मादिस्तम्बपर्यन्तेषुकोपिजन्तुः । यथाभावं यथाभि लाषं । अप्रतिहतसंकल्पतयेत्यर्थः । नसमभिवर्तते । कश्चिदित्यनेन मानुषाद्यपेक्षयाचिरकालवर्तिनां शक्त्य- तिशयभाजामपिब्रह्मादीनामधिकारावसाने मरणं दु र्निवारमेवेत्याशयः । तेन एवमप्रतिहत संकल्पत्वाभा- रामानुजीयं । समुद्रलवणार्णवमितिपाठस्सम्यक् | ति० अतीतरजन्यप्रतिनिवृत्तौदृष्टान्तोयमुनायात्येव नप्रतिनिवर्ततइत्यर्थः । उदकार्णवमित्यत्रोदकपदमधिकं । स० समुद्रंयथाभवतितथा सचिह्नमितितदर्थः । उदकार्णवमितिदध्यादिसमुद्रव्यावृत्त्यर्थे ॥ १९ ॥ ति० गच्छन्तीतिशत्रन्तं । आशयेइतिपाठेजलाशयइत्यर्थः ॥ २० ॥ ति० आयुस्तु यस्य यस्यकस्यापीत्यर्थः । ती० आत्मानमनुशोच नश्वरफलसाधनेषुव्यापृतंत्वामेवानुशोचेत्यर्थः । स० आत्मानमनुशोच आयुर्गच्छतिश्रेयस्साघनं किंमयाकार्यमि तिचिन्तय | शि० स्थितस्य कदाचिदिहलोकेविद्यमानस्य । गतस्य कदाचिद्देवलोकंप्राप्तस्यचयस्यप्राकृतजनस्य आयुर्हीयते तमात्मानंशरीरिणं । अनुशोच तद्दुःखनिवर्तकयनंकुर्वित्यर्थः । अन्यं प्राकृतविलक्षणं मां । किं किमर्थमनुशोचसि ॥ २१ ॥ ति० सहेति । अन्तर्यामिण एवमृत्युरूपत्वात् । अतोपरिहार्यस्सइतिभावः ॥ २२ ॥ स० वलयः जराज्ञापकाङ्गशैथिल्यानि | ति० यद्वा किंकृत्वा कमुपायंकृत्वा । एतत्सर्वपरिहारेसमर्थोभवेदित्यर्थः । शि० वलयः जराकृताकारविशेषाः । किंकृत्वाप्रभावयेत् । एतेनास्मत्प्रयत्नमन्तरामृत्युनिवृत्तिर्नभवितेतिसूचित्तं ॥ २३ ॥ ति० आत्ममुखमितिपाठे स्वखाभिमुखमृतूनां परिवर्तदृष्ट्वा हृष्यन्ती - त्यर्थः ॥ २५ ॥ ति० अत्र संसारे | कश्चिदपिप्राणी यथाभावं यथाप्राप्तंस्वभावंमृतिजनिलक्षणं । नसमतिवर्तते नलङ्घयति । [ पा० ]१ ङ. अतीता. २ ङ. छ. झ ञ ट पूर्ण. ३ घ. ज. समुद्रंलवणार्णवं. क. ख. ग. ङ. च. छ. झ ञ. ट. समुद्रमुदकार्णवं. ४ छ. झ. ट. आयुस्तु. ५छ. झ. ट. स्थितस्याथ. ख. ग. स्थितस्यापि ६ ख सुदूरं ग. ज. सदीर्घे, ७ छ. झ. ट. मितेऽहनि. क. च. ज. मितेऽपिच ८ क. ख. ङ. च. छ. झ ञ ट वसूनि ९ ङ, छ. झ ट समतिवर्तते, वा. रा. ८२