(२५६)
समेषां पूर्वोयतानां गुणानां समवायः पुनः कस्मिद्विदेकस्मिन् मनुष्ये दुर्लभ इति सत्यमिति भावः ।
भाषा
अरे वह शौर्य । अरे वह धैर्य ! अरे वे मर्यादा के कार्य ! यह सत्य है कि ये सब गुण एकही मनुष्य में फिर से नहीं मिल सकते जो आहवमल्ल देव में थे ।
|
अन्वयः
मे भाग्यानाम् एव दोषात् कुण्ठीकृतारिशस्त्रस्य व्रज्रोपमाकृतेः तस्य एषः परिक्षयः जातः ।
व्याख्या
मे मम भाग्यनामेवदुर्भाग्यानामेवदोषादपराधात् कुण्ठीकृतानि व्यर्थीकृतान्य- रीणां शत्रूणां शस्त्राणि प्रहरणानि येन स तस्य व्यर्थीकृतशत्रुप्रहरणस्य वज्रस्य कुलिशस्य ‘ह्रादिनीवज्रमस्त्रीस्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरः शंबो दम्भोलिरशनिर्द्वयोः' इत्यमरः । उपमा सादृश्यं यस्यां सा वज्रोपमाऽतिकठि नाऽऽकृतिर्देहो यस्य स तस्य वज्रोपमाकृतेर्वज्रवदतिकठोरशरीरस्य तस्याऽऽहवम ल्लदेवस्य एष उपस्थितः परिक्षयो विनाशो जातः।
भाषा
मेरे ही दुर्भाग्य से शस्त्रुओ के शस्त्रो को कुण्ठित कर देने वाले और वज्र के समान अति कठोर शरीर वाले मेरे पिता आहवमल्लदेव राजा की मृत्यु हुई है।
पाठान्तरम् । तदेव पूर्वोक्तश्लोकार्धे प्रकारान्तरेण वर्णयति कविः । मद्भाग्यदोषावैष जाने जातः परिक्षयः ।
अन्वयः
एषः परिक्षयः सद्भाग्यदोषात् एव जातः (इति) जाने ।