निवासस्थानम् । शुक्लवसास्याद्धोदधौ पुण्डरीकत्वारोपादेकस्थान एव लक्ष्मीनारायणयोर्वर्तमानत्वम् । अतो ‘दुग्धोदधिपुण्डरीके’ इत्यत्र रूपकालङ्कारः। चञ्चरीकद्युतिमिवधूतिमित्यर्थावगमात्पदार्थनिदर्शना । नीलोत्पलस्येव श्यामल देहंकान्तेः सद्भावादुपमा। अतस्तेषां संसृष्टिः । लक्ष्मी के निवास स्थान क्षीर सागर रूपी श्वेत कमल में जिनकी साँवली मूर्ति भरे के समान शोभित हो रही है, ऐसे नीले कमल के समान साँवली देहकान्ति वाले विष्णुभगवान् आप लोगों की ऐश्वर्यवृद्धि करें । वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रखतेर्गरुडध्वजस्य। श्रियोऽङ्गरागेण विभाव्यते या सौभाग्यहेम्नः कषपट्टिकेव ॥३॥ अन्वयः या श्रियः अङ्गरागेण सौभाग्यहेम्नः कषपट्टिका इव विभाव्यते, सा जगत्प्रसूतेः गरुडध्वजस्य वक्षस्थली जगन्ति रक्षतु । व्यख्य या श्रियो लक्ष्म्या अङ्गस्य शरीरस्य रागेण कञ्चनसमानवर्णेन प्रतिबिम्बि- तेन हेतुना सौभाग्यहेम्नः सौभाग्यमेव हेम सुवर्णं तस्य श्री-सौभाग्यरूपहिरण्यस्य शुद्धयशुद्धिपरिचायिका कषपट्टिकेव कषपाषण इव विभाव्यते ज्ञायते सा जगतां बेश्वेषां प्रसूतेः कारणस्य गरुडध्वजस्य गरुडवाहनस्य ‘गोविन्दोगरुडध्वजः' इत्यमरः । विष्णोर्वक्षःस्थल्युरस्थलं जगन्ति लोकान् रक्षत्ववतु । सौभाग्य
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5b/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%9A%E0%A4%B0%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A5%8D_.djvu/page32-1024px-%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%9A%E0%A4%B0%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A5%8D_.djvu.jpg)