पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/११६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीश्रीनिवासपरब्रह्मणे नमः श्रीमते रामानुजाय नमः श्रीमते निगमान्त महादेशिकाय नमः ॥ विशिष्टाद्वतसिद्धिः ॥ चराचरशरीराय सुरासुरनताङ्ग्ये । भयाभयनिदानाय घनाघनरुचे नमः ॥१॥ श्रियाऽभिजुष्टं श्रुतिभिः प्रदिष्टं तत्त्वं विशिष्टं सुधियां यदिष्टम् । अद्वैतसिद्धिप्रसरोपरोधात् प्रदर्शयामः परिनिष्ठितं तत् ।।२।। असावध्यासनः शिखरमुदयाद्रेरनुदिनं जगद् भासा भास्वान् जयति विदधानो वितिमिरम्। समिन्धानं पोठे महति महता ब्रह्महसा गुरुं नः श्रीवासं स्मृतिपथमजनं नयति यः ॥३॥