पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः चतुर्थ-पञ्चमंमिथ्यात्वे (६) चतुर्थमिथ्यात्वम् ८ स्वाश्रयनिष्टात्यन्ताभावप्रतियोगित्वमितीतरन् । इदं विधुर’ स्वात्यन्ता- भावाधिकरण एव प्रतीयमानस्त्रम्’ इति । अत्राधिकरणपदेन यदि प्रतिपन्नोपाधिगृह्यते तर्हि तत्र स्वात्यन्ताभावो दुर्गुहः। प्रतीयमानत्वं ह्यत्र शुक्तिरूप्यचन्न भ्रान्तिविषयत्वम् । अतः प्रतियोगी तत्र वर्तत एव । तथा सति तदत्यन्ताभावः कथं तत्र गृह्यत । अत एव साध्यत इति चेत् नूनं वहेरनुष्णत्वसधनेऽपि कुशलो भवान् । अथ सन्मात्रं गृह्यते तर्हि दृष्टन्ते तन्निष्ठतया अत्यन्ताभावस्य प्रतियोगिनो वा अगृहीतत्वात् हेतुव्यापकत्वं न सिद्धम् । अत इदमपि साध्यमयुक्तम् । (७) पञ्चममिथ्यात्वम् अथान्ते “सद्विविक्तत्वं वा मिथ्यात्वम् । सत्वं च प्रमाणसिद्धत्वम् । प्रमाणत्वं च दोषा।सहकृतज्ञानकरणत्वम् । तेन स्वप्नादिवत् प्रमाण सिद्धभिन्नत्वेन मिथ्यात्वं सिद्धयति,” इत्याह । इदमपि पक्षे दुर्रहमेव । पृथिव्यादीनां हि प्रमाणसिद्धत्वनिश्चयोऽनद्वैतिनां वर्तते । ते कथं तत्र प्रमाणसिद्धभिन्नत्वं गृह्णीयुः । पृथिव्यादिप्रत्यक्षे न प्रमाणम् । दोषसह कृतज्ञान करणकत्वादिति चेन्न । असिद्धेः, न हि पृथिव्यादिप्राहकचतु राद्य पघातिदोषविशेषसद्भावे किञ्चन प्रमाणमस्ति । अत्रैतश्रुतिः प्रमाण मिति चेत् तर्हि सैव परिशीलनीया। किमनुमानव्यसनेनेति । (८) मिथ्यात्वमिथ्यास्वम् अथेदं साध्यं मिथ्यात्वं मिथ्या न वेति विकल्प्य, आद्य प्रपञ्चः सत्यः स्यात् । एकस्मिन् धर्मिणि । प्रसक्तयोर्विरुद्धधर्मयोरेकस्य मिथ्यावे अपरसत्त्वनियमात् । अन्ये मिथ्यात्ववदेव प्रपञ्चः सत्यः स्यात् उभयथाऽ प्यद्वैतहानिरिति परैः कृतमाक्षेपं परिहरन् इदमाह-“मिथ्यात्वमिथ्या