पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१२६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ बाधकः । अयथार्थत्वप्रकाशोऽत्र बाधः । तद्विषयत्वं बाध्यत्वम् । अय थार्थत्वं मिथ्यात्वम् । विषयस्य तु बाध्यत्वं बाधितप्रत्ययविषयत्वं बाधकप्रत्ययाधीननेतिप्रत्ययविषयत्वं वा । मिथ्यात्वं पुनः स्वधर्मिवृत्ति विरहप्रतियोगित्वम् । ज्ञानानां स्वतः प्रामाण्यात् स्वरसतः प्राप्तमर्थनिश्वा- यकवं पूर्वप्रत्ययस्य बाधकवशेनायथार्थत्वनिश्चयान् तेन दुष्टकरणजन्य त्वनिश्चयाच्च अपोद्यते । प्रयुताप्रामाण्यमध्यवसीयते । तदभवे बाध कप्रत्ययादेरनुपपत्तेः। एवं च बाधितेन अत एवायथार्थेन दुष्टकरणजन्येन च प्रत्ययेन यद्यप्रकाशितं तत्सर्वं बधितत्वेन स्वधर्यधिकरण कात्यन्ता भावप्रतियोगित्वरूपमिथ्यात्ववदिति व्याप्तिगृह्यते । वस्तुवृत ' एवं स्थिते । विशेपतः प्रतिपन्नस्यायथार्थदर्शनविषयत्वस्य हेतुतां विहाय सामान्यतो दृश्यत्वस्य यद्धेतुत्वं कलष्यते यच्च मिथ्यात्वप्रत्यायकस्य अत एव तद्वयप्यत्वेनाध्यवसेयस्य बाध्यत्वस्य प्रमाणसिद्धभिन्नत्वस्य वा व्यापक मिथ्यावरूपत्वं कृत्वा साध्यतया निर्देशः क्रियते, तदेतत् तत्रभवतां न्यायमार्गातिलङ्घनसाहसप्रियतामेव प्रथयति । शुक्तिरूप्येऽसमीचीनदृष्टि विषयत्वस्यैव हि मिथ्यात्वेन साहचर्यं दृश्यते । तथा सति समो चीन प्रत्ययविषयसत्यरूप्यसाधारण्येन दृश्यत्वमात्रस्य कथं व्याप्यत्वं भवेत् । न हि धूमस्य वह्निसाहचर्येण सामान्यतो द्रव्यस्य तद्वयप्यत्वं भवेत् । तदिह मानाधीना मेयसिद्धिरिति क्रमं परित्यज्य आभिमानिकं मेयं किञ्चित्कृत्वा तदनुरोधेन मानव्यवस्यां कुर्वन्तो विपरीतं क्रमान्तरम श्रयन्ति भवन्तः । अथेदं दृश्यत्वं यदि वृत्तिव्याप्यत्वं तत्र वृत्तिपदर्थः कः। किमस्मद भिमतं धर्मभूतज्ञानं, उतान्यत् किञ्चित् । नाद्यः। जडान्तःकरणधर्मत्व भ्युपगमत् । नन्त्यः । हेतोरसम्प्रतिपन्नत्वापत्तेः । न हेि भवदभिमता वृत्तिरस्माकमिष्टा । अभ्युपगम्यापि तु व्रमः । वृत्तिव्याप्ये ब्रह्मणि हेतोः सत्त्वाद्वयभिचारःवेदान्तवेद्य हि तत् । न च तस्य “यत्तदद्रेश्यम्” इति