पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ec विशिष्टाद्वैतसिद्धिः प्रथमः क्षसाधारणमिति च उक्तप्रायम् । एतदुक्तं भवति । अनुमेयं चरमसाक्षात्कारवाध्यवरूप मिथ्यात्वं इदानीन्तनप्रत्यप्रमत- घटादिसत्वस्यापि भवति न वा । आचे प्रत्यक्षवाधान्नानुमनमु देतुमलम् । अन्ये घटादिसत्त्वं पारमात्रेिफमित्यनैसिद्धिरिति । एवं परीक्षितत्वेन उपजीव्यत्वेन च प्राबल्यात् प्रत्यक्षस्य तद्विरुद्धे मिथ्यात्वानुमानमिदं आभासरूपमेवेति स्थितम् । एतद्वैपरीत्येन मिथ्यात्वानुमानमेव प्रत्यक्षबाधकमिति निरूपणे प्रवृत्तः तत्र प्रतिपक्षि- भिरुक्तमनूद्य प्रतिक्षिपन्निदमाह नन्वेवं पशुत्वेन शृङ्गानुमानमपि स्यात् , 'लाघवान् पशुवमेव भृङ्गवत्वे तन्त्रम् न तु तद्विशेषगोत्वादिकम् । अननुगतत्वेन गौरवन्’ इत्येततकंसमीचीनत्वेन प्रत्यक्षापेक्षया प्राबल्यात् । अनुकूलतर्कसाचि व्यमेव हि अनुमाने बलम्, एवं च येनकेनचिन् सामान्यधमेण सर्वत्र यत्किञ्चिदनुमेयम् , लाघवतर्कसाचिव्यस्य सत्वात् । तावतैव प्रत्यक्ष बाधकत्वात्, इति व्यावहारिक्यपि व्यवस्था न स्यान् , न ह्यत्र प्रत्यक्षबाधादन्यो दोषोऽस्तीति चेन्न, अयोग्यश्रुङ्गवदिसाधने प्रत्यक्षबाधस्यासम्भवेन तत्र व्याप्तिग्रा हकतर्केष्वाभासत्वस्य त्वयाऽपि वक्तव्यत्वेन व्यवस्थाया उभयसमा घेयत्वात् , न हि तर्काभाससमीचीनमनुमानं प्रमाणमिति केनाप्यभ्यु पेयते । अत उपपन्नं सत्तङ्कसचिवमनुमानं प्रत्यक्षस्य वाधकमिति । इति । अत्र ब्रमः । दृश्यत्वादिना जगन्मिथ्यात्वानुमानं पशुत्वेन शृङ्गित्वानुमानं च समानयोगक्षेममेवेति सुग्रहं सर्वेषाम् । तत्र मिथ्या- त्वानुभावेन सत्वप्राहि प्रत्यक्षे यथा बाध्यते तथा शशे भृङ्गिवानुमानेन अष्टङ्गिस्वग्राहि प्रत्यक्षे बाध्यत इति वा, प्रत्यक्षबाधितत्वात् ऋङ्गित्वा नुमानमिव मिथ्यात्वानुमानमष्य।भास इति वा वक्तव्यम् । अत्र प्रथमे