पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः प्रथमः ४० पि बाधकप्रत्ययशून्यत्वम् ; यद्वा स्त्रप्रकाशाद्वितीयचैतन्यरूपत्व मिति । आद्ये त्रह्म नित्यम् . प्रपत्रोऽनिय इति फलति । तदिष्टमेव । द्वितीये ब्रह्मणो यथा बाधकप्रत्ययो नास्ति तथैव प्रत्यक्षावगतघटादे रपीति उभयोः सवस्य समनत्वान् तदभावो नागमेन बोधयितुं शक्य इत्यपरिहार्यमर्थान्तरपरस्वम् । तृतीये जडत्वं बोधितं भवतीति न पारमार्थिकसत वयाधः । एतेन ‘अपच्छेदन्यायेनष्यागमस्य प्राबल्यम्' इत्येतदपि निरस्तं । वेदितव्यम् । एकैका च्छेदमात्रवति प्रयोगे सावकाशयोः द्वयोः शास्त्रयोः क्रमिकापच्छेइह्यवति प्रयोग प्राप्तयोः पूर्वनिमित्तकशास्र पेक्षया उत्तरनिमित्तकशास्त्रस्य प्राबल्यमपच्छेदाधिकरणे निर्णीतम् ‘पूर्वायाधेन नोत्पत्तिरुत्तरस्य हि विद्यते-इति । प्रकृते तु प्रत्यक्षप्रा- माण्यस्य निरवकाशत्वान्न तस्य आगमेन वधो भवितुमर्हति । यत्त व्यावहारिकप्रामाण्ये तसावकाशमिति तन्नेति प्रागेव सुनिरूपितम् । व्यावहारिकमिति नःश्विकमिति चैकाद्युक्तेः अर्थान्तराभवान् । किञ्च यत्र परस्परनैरपेक्ष्यं तत्रैवाषच्छेदन्यायः। यत्र तु सापेक्षता तत्र असञ्जातवेरोधित्वेन पूर्वप्रावल्यमेव । तदुक्तम्- पूर्वात्परवलीयस्त्वं तत्र नाम प्रतीयताम् । अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेन् ।। इति । स्वस्त्ररूपस्वप्रामाण्यादिहेतोः प्रत्यक्ष पजीवी चागमः। तेन तस्य पूर्ववनियमान् उपक्रमाधिकरणन्याय स्यैवात्र प्रवृत्तेः तदविरोधेनेच स्त्रर्थोऽनेन प्रतिपादनीयः। यव- त्रोक्तम् एकवाक्यस्थपरस्परसापेक्षपदत्वेनोभयोः सम्ये सति उपक्रम- स्थवेदपदानुरोधेन उपसंहारस्थऋगादिपदानां मन्त्रमात्रवाचिनां कृत्स्नवेदपरत्ने निर्णीतेऽपि न प्रकृते तन्न्यायः सम्भवति । उभयोः साम्याभावान् । गृहीतप्रमाणभावश्रत्यपेक्षया भ्रमविलक्षणत्वेनानि