पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः आगमबाधः ६५ यस्मिन् पञ्च पञ्चजना इति मन्त्रनिर्दिष्ट आत्मनि किञ्चन नानात्वं नास्ति | भेदलेशोऽपि नास्तीत्यर्थः । “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" | इन शब्दोऽल्पार्थः । इह निखिलप्रपत्राधार- भूते आत्मनिअल्पमपि नानात्वं यः पश्यति सः मृत्योर्मृत्युमाप्नोति संसारान् संसारमाप्नोति । अत्यन्तं संसारमाप्नोतीत्यर्थः । य वाक्यस्य परैरप्येवमेव व्याख्यातत्वात नात्र वाक्ये प्रचमिथ्यात्व- प्रतिपादनप्रत्याशा कार्या ।

इति । विभुनो ब्रह्मस्वरूपत्य कृत्स्य एकरूपत्वप्रतिपादनपरत्वेनास्य वाक्यस्य प्राचीनैरद्वैतिभिरपि व्याख्यातत्वान् प्रपञ्चमिथ्यात्त्रे नेदं प्रमाण- मित्युक्तं भवति । नवीनास्तु क्रूटस्थव्याख्यानमनादृत्य इह् ब्रह्मणि नाना नानाभूतं किञ्चन आकाशादिकं किमपि नामित वस्तुतो न वर्तते । कल्पि- तम मिश्चेति यावदति विवन्ति । तदयुक्तम | यदि तावत् काठक- प्रकरणस्थ एवायं मन्त्र इनि गृह्यते तर्हि 'यदेवेह तद्मुत्र यदमुत्र तद- न्विह' इति पूर्वमन्त्रे अन्वयमुनोत्तस्यैव ब्रह्मस्वरूपैक्यस्य व्यतिरंकेण अर्थवादाभ्यासशिरकनुच्यमानःवान् अर्थान्तरकथनं नोपपद्यते । यदि तु काठकप्रकरणमत्र तदा इह प्रपञ्चे नाना ब्रह्मणः पृथग्भूतं ब्रह्मान्तर्यामिकतया तत्प्रकारत्वरहितं किञ्चन किनपि वस्तु नाम्तीत्यर्थो न्याय्यः । इति प्रत्यक्षदृष्टप्रपञ्चपरत्वस्वारस्यात् । कुतो नानेति जिज्ञासायां ब्रह्मण इति प्रकरणेन लाभान् । 'सर्वत्राख्यात सम्बन्धे श्रूयमाणे पदान्तरे | विधिशक्तच पसङ्क्रान्तेः स्याद्धातोरनुवा- दता ।' इति वार्तिकांक्तन्याचेन निषेधस्य नानात्ववियतया सत्त्व- विषयत्वाभावात् । 'ईशावास्यमिदं सर्वं यत् किञ्च जगत्यां जगत्' इत्यन्वये- नोक्तस्यार्थस्य व्यतिरेह प्रतिपादनमिति स्वरसतः प्रतीयमानत्वात् । 'किमपि नास्ति सर्वं मिथ्या' इत्येतत्परत्वे इह नानेति पदद्वयवैयर्थ्याच्च । 'यस्मिन पञ्च पञ्चजना आकाश प्रतिष्ठितः' इति केषाश्चित् तत्र प्रतिष्ठि