पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/१९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ विशिष्टाद्वैतसिद्धिः प्रथमः प्रतिवादिनः प्रति । साक्षाद् विपरीता हि वस्तुस्थितिः । यत्र तात्त्विक - सम्बन्धो न सम्भवति तत्र ह्यगत्याऽऽध्यासिकः सम्बन्धः कल्पनीयः । कथं रजतभ्रान्तिमान् तदुपादानाय प्रवर्तेत । आध्यासिक- “सम्बन्धस्यौत्सगिंकत्वे तेनोपेक्षापरेणैव भाव्यम् । प्रतियोग्यभावादिस्यले च विलक्षणसम्बन्धाभ्युपगमेऽवर्जनीचे को न्यायवित अपूर्व सम्बन्धान्तर - कल्पनं सहेत । यच्च विषयत्वं नामेदनिति निर्वक्तुमशक्यमिति तत् कामं • तथा भवतु । निर्वचनाशक्त्या न प्रमेयमसद् भवेत् । “सच संयागादिव - दतिरिक्त वा स्वरूपं वा, पराङ्गीकृतपदार्थान्तर्गतो वा, तदतिरिक्तो वेत्यस्यां काकदन्तपरीक्षायां न नो निर्बन्धः” इति प्रतियोगित्वादिनिर्व- चने परमां विरक्तिं प्रदर्शयतः विषयत्वनिर्वचनानुयोगे का परमा श्रद्धा | अद्वैतसिद्धेरिदमप्युपयुज्यत इति चापलं केवलमत्र हेतुः । हन्त यथा यथा मार्गो गम्यते तथा तथा दर्शनस्य दौर्बल्यमेव ख्यापितं भवति, न तु सुस्थितत्त्रमिति विदाकुर्वन्तु भवन्तः । प्रपञ्चमिथ्यात्व सिद्धिः दृ- शनेनैव अत्रोक्तमन्यत् सर्वं निरस्तं भवतीति नेदानीं अधिकं ब्रूमः । इदं चात्र प्रष्टव्यम् । मिति किमत्र विवक्षितम्-शुद्धचैतन्यं वा वृत्तिर्वा । नःद्यः । शुद्धचैतन्यस्य विषयाग्राहकत्वेन तत्र सम्बन्धविशेष- विमर्शप्रसक्तिविरहात् । नान्त्यः | वृत्तौ विषयाणामध्यासाभावेन तन्त्राध्या- सिकसम्बन्धकल्पनानुपपत्तेः । वृत्त्या अन्यत्र अध्यासे, भूतले देवदत्तन दृष्टस्य घटस्य दर्शनं यज्ञदत्तस्य न स्यात् । तद्ध्याससिद्धस्य वस्तु- नोऽन्यदर्शनायोग्यत्वात् । यज्ञदत्तवृत्त्यभ्याससिद्धोऽन्य एव घट इति चेत् किमिदं वेदान्तदर्शनं उत सौगतदर्शन मिति चिन्तनीयं तत्रभवद्विः । २१. प्रतिकर्मव्यवस्था । “विश्वस्याध्यासिकत्वे प्रातिभासिकस्थल इव विषयेन्द्रिय सन्निकर्पा-