पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः प्रतिकूलतर्क : ८५ जायमाना सर्वा वेदना अनुभाव्या भवति तथा । अत एव हि सूत्रम् - ‘“असन्ततेश्चःव्यतिकरः" इति । सन्ततौ व्यांतकर एवेति हि तात्पर्यम् | ननु केवलस्यान्तःकरणस्य नानुभवः जडत्वात् । नामि केवलस्य चैत- न्यस्य | निस्सङ्गत्वात् । अपितु अन्तःकरणोपरूढस्य चैतन्यस्य | तस्य च विभिन्नत्वात् नास्त्यव्यवस्थेति चेन्न । उपाधिभेदेऽपि चैतन्यस्यैक- त्वात् । न ख़लूपाधयः चैनन्यं खण्डयित्वा भिन्नभिन्नं खण्डमुपदधति, येन विषयानुभवो व्यवतिष्ठेत । २२. प्रतिकूलतर्कः प्रतिकूलतर्कपराहतं चेद मिथ्यात्वानुमानम् । तथा हि । विश्वं यदि ब्रह्मणि कल्पितं स्यात् तर्हि प्रतीयमान्ब्रह्मा, विष्ठानक स्यात् । न चैवम् | अयं घटः अयं पट इति इदमा देशकालविशेषवर्तिब्रह्मेतरवस्तुमात्र- निर्देशात् । ब्रह्मएः सर्वया प्रतीतिविरहात् । न च सन् घटः सन १टः इति बहुलं व्यवहारात् तत्र च सच्छन्देन ब्रह्मण एव निर्दिश्यमानत्वात् प्रती- यत एवाधिष्ठाननिति वाच्यम् । अस्मिन् व्यवहारे ब्रह्मणः सच्छब्दा- थत्वाभावात् । न हि ब्रह्मतालर्येण एवं व्यवहन्ति । सन्, न त्वसन् इति घटायुद्दे शेन विद्यमानस्वबोधनमात्रे तात् । अतोऽत्र सच्छ- ब्दस्य ह्मार्थकस्वाभावान् उद्देश्यत्वविरहेणाविष्ठानपरत्वाभावाच्च नायं व्यवहार: ब्रह्मात्मकाविष्ठानप्रतीतौ प्रमाणम् । न च तादृशं व्यव- हारान्तरमनीति अप्रतः मानवाधिष्ठानकमेव विश्वम् । कञ्चविशेष विष्ठानं स्यात् । सामान्येन ज्ञातवें सति अज्ञात- विशेषवत एवाविष्ठानत्वात् । यतु लाववात् विशेषवत्त्वेनाज्ञातत्वमेव प्रयोजकम्, न त्रज्ञातविशेषवत्त्वभित्युक्तं तन्न हृद्यम् । शुकि रजतभ्रमे शुक्तेः काठिन्यचाकचक्यादिरूपविशेषवत्वेन ज्ञाततया अज्ञातत्याभावेना- विष्ठानत्वानुपात्तिप्रसङ्गात् । भ्रमविरोधिनावच्छेदक विशेषवत्त्वेनाज्ञात-