पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैत सिद्धिः प्रतिपाद्य तत्प्रतिपादनेनैव सतो जगदुपादानत्वं प्रतिपादितमिति स्वत्र्यतिरिक्त निमित्तकारणमद्वितीयपदेन प्रतिषिद्धम् ।" इति । इदमुक्तं भवति । अस्मिन् वाक्ये सदिति सत्तायोगस्य सी दिति भवनक्रियायाः, अम इति कालस्य, उपरि तदैज्ञतेत्यादिना ईक्षणा- देश्च वचनात् सकलभेदशून्यत्रह्मप्रतिपादनप्रसङ्गः सर्वथा नास्ति । बहु स्यामिति उपरि वदयमाणावस्थाविलक्षणावस्थाप्रतिवादकतया एक- शब्दः एवकारोत्तरः प्रलयकालिकाविभक्तनामरूपत्वावस्थां सावधारण- माह । सदेवेति ब्रह्मरण उपादानत्वप्रतिपादनात् निमित्तकारणमन्यत् स्यादित्युदयनानां शङ्कां वारयति अद्वितीयशब्दः निमित्तकारणीभूत- वस्त्वन्तरशून्यमित्यथऋः | सृज्येन केनचित् सद्वितायत्वस्य एकमेवेत्यने- नैव निवारितत्वात् राष्ट्रा केनचित् सद्वितीयत्वनिवार सत्येव हि अद्वितीय साकं भवति, इति । अनुपच पयस्य सकलभेद निषेवपरत्वम् । तथाहि । घट एकः मनुष्य एक इत्युक्ते धमिंगतसङ्घ चान्तरव्यवच्छेदमात्र प्रतीतेस्तत्रैव एकशब्दो व्युत्पन्नः । न तु तद्गतगुणान्तरजात्यादि निषेधे । अव्युत्तेः अतः प्रकृते स्त्रगतभेदुनिषेवस्तावन्नास्ति | सत् एकमित्यनेन सच्छब्द- वाच्यं धर्मि नानेकं न बहु इत्येतावन्म त्रत्रोधात् । वदयमाणसृष्टिकाली- नबहुत्वावस्थाविरीतावस्थाविषमात्रबोधने तात्पर्यात् । अथ एकमेवे- त्येवकारस्य एकत्वावधारणमात्रपरत्वात् सजातीयव्यवच्छेदकत्वं नास्ति । न हि चन्द्र एक एवेत्युक्ते सूर्यों नास्तीति गम्यते । एवं आंतोयपदेन सदृशद्वितीयनिषेधस्यैव प्रतीयमानत्वात् विजातीयनिषेवपरत्वं नास्ति कारणचेतनत्वेन सदृशद्वतीयनिषेधेन उपपद्यमानं तत् कथं विजातीय- निषेधपरतया हठाद्योज्येत । एवं पदसामर्थ्यविरुद्धं सकलभेदनिषेधपरत्वं पत्रयस्येति बोध्यम् । तदैज्ञत तदसृजतेति स्वगतभेदोक्तेः तन्निवारणपरत्वमसम्भवि । अनेन ६४ प्रथमः