पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ विशिष्टाद्वैतसिद्धिः प्रथमः भवति । उक्तं च वाक्यकारेण 'वेदनमुपासनं स्यात् तद्विषये श्रवणात् इति । इदमत्र बोध्यम् । श्रुतिस्मृतिबोधितत्वं ऋथं ज्ञाननिवर्त्यत्वस्य | अवि- धेयज्ञानवादिनो हि भवन्तः । प्रतीतिबाधाभ्यां प्रपञ्चस्य मिथ्यात्वे सिद्धे अधिष्ठानतत्त्वसाक्षात्कारनिवर्त्यत्वं अन्यत्र तिरेकाभ्यां लोकतः प्राप्तम् । पुरुषपरतन्त्रत्वाभावाच्च ज्ञानं न विधेयमिति वदन्ति । अतो लोकतः प्राप्तस्य ज्ञाननिवर्त्यत्वस्यानुवादमात्रं श्रुतिस्मृतिवचनेषु इति स्थिते प्रपञ्चमिथ्यात्वसिद्धयधीनसिद्धिकस्यानुवाद्यस्य ज्ञाननिवर्त्यत्वस्यानुपपत्त्या तन्मिथ्यात्वं सिद्धयतीति विपरीतनिरूपणे प्रवृत्तिः न युज्यत इति । २७. दृष्टिसृष्ट्यनुपपत्तिः । साक्षात्कारं जगत्स्थायि । स साक्षात्कारः कदाचिद् भवि- ष्यति । तदा रज्जुसर्पादिवत् जगद बाधितं भविष्यतीत्येतादृशेन जग- निमथ्यात्वेनातृप्यन् “यत् किमपि वस्तु यदा ज्ञायते तदाऽस्ति यदा न ज्ञायते तदा नास्तीति इमं दृष्टिसृष्टिवादमवतायें समर्थयितुमीहते । न च शक्यः समर्थयितुम् | अतिदौथ्यात् । जीवेशादीनामपि घटपटादिव- देव दृटिसृष्टित्वापत्तेः 'षडस्माकमनादयः' इत्यनेन विरोधात् । न च तदितरविषय एव दृष्टिसृष्टिः स्वीक्रियत इति वाच्यम् । भवत्स्वीकारा- स्वीकारयोरतन्त्रत्वात् । यदि घटादिषु सा उपपन्ना कुतो न जीवेशा- दिषु । किञ्च घटादिशून्ये देशे अस्मद्दष्टिग्रसरे सति घटादिकं कुत्तो नोत्पद्यते ? घटमपेक्षमाणः पुमान् अन्यं नियुज्य तेनानीतं आ स्वदृष्टिमात्रेण स्त्रष्टुं शक्तः किमति अन्यं प्रेरयति ? कुलालकुविन्दादि- दृष्ट्यैव घटपटाद्युत्पत्तौ तेषां मृत्तन्त्वाद्यार्जनप्रयासः किमर्थः? प्रत्यभि- ज्ञान विश्वस्य स्थायित्व प्रतिपाद कसूत्रभाष्यविवरणादिग्रन्थवरोधश्च दुष्परिहारः । यत्तु, कारणात्मना स्थायित्वं स्वीक्रियते । तावतैव बौद्धा- भिमतक्षणिऋत्वनिराकरणत्वोपपत्तेर्नाकर विरोध इति तद्युक्तम् । वार्यस्य