पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः दृष्टिसृष्टिः घटस्य उत्पत्तिक्षरादारभ्य विनाशक्षणपर्यन्तं स्थैर्यं हि बौद्धसम्मतक्ष- णिकत्वनिराकरणेन सिद्धान्तिभिः स्थाप्यते । कारणभूताविद्यात्मना क्षणिऋत्वं तैर्नेष्यते । नापि सिद्धान्तिभिर्निराक्रियते । इदमसङ्गतम | यच्चात्र "प्रतीतिमात्र शरीरत्वेन नियतकारणाजन्यत्वे स्वर्गाद्यर्थज्यो-- तिष्टोमादिविधिप्रभृत्तीनामनुपपत्तिः" इत्याक्षेपस्य "स्वाप्नकार्यकारणा- भाक्बोधकवाक्यत्रदुपपत्तिः" इति समाधानमुक्तं तेन अद्वैतनिष्ठा नास्ति- क्यफलेति स्वयमेव स्फुटं प्रकाशितम् | स्त्राप्नवाक्यं, कारणत्वेन कार्य- त्वेन च तद्बोध्ये वस्तुनी, तयोः कार्यकारणभावः, इति हि सर्वमिदं मिथ्या | यदि तत्तुल्यमेव वेदतदर्थ कार्यकारणभावादि सर्वं तहिं आस्ति- क्यकारणं किमन्यदवशिष्यते । वेदान्तवाक्यतन्मीमांसादिकमस्तीति चेन्न | तस्यापि स्वाप्नाविशेषात् । बाधाबाधाभ्यां विशेष इति चेन्न । स्वाप्नबाधाबाधयोर्वस्तुतत्त्वनिर्णयहेतुत्वात् । न हि भूतले सन् घटः स्वप्ने तन्निवृत्त्या निवर्तते । मृतस्य पुरुषस्य वा स्वाप्नसद्भावेन सद्भावो भवति । यत्तु दोषप्रयुक्तत्वाज्ञानेनाबाधःपपत्तिरिति व्याख्यायामुक्तं तत् जागरे घटादिप्रत्ययानामपि तुल्यम् । एषां दोषप्रयुक्तत्वज्ञान सम्भवे वेदान्तवाक्यजन्यब्रह्मप्रत्ययस्यापि तथैव सम्भवति । अतोन कथमपि विशेषः सुवचः । एवमेव “तृप्त्यर्थं भोजने पर प्रत्यायनार्थ शब्दादौ च प्रवृत्तेरयोगेन स्वक्रियाव्याघातः” इत्याक्षेपस्य "स्वाप्नव्यवहारबदुपपतिः" इतीदं न समाधानम् | स्वपतः पुरुषस्य यच्छरीरं यानि च चक्षुःपाणिप्रभृतीनि ज्ञानकर्मेन्द्रियाणि तानि नपण तिष्ठन्ति । तन्निरपेक्ष एव स्वाप्नो व्यवहारः सर्वः प्रवर्तते । तत्र स्वक्रियाव्याघातमापादयतामयमभिप्रायः - यथा स्वप्ने सर्वं प्रतीतिमात्रशरीरं तथैव चेत् जागरेऽपि तर्हि स्वप्न- वदेवात्रापि सर्वप्रत्यक्षशरीरेन्द्रियनिरपेक्ष एव भोजनादिव्यवहारः प्रवर्त- ताम् । इति । अत्र समाधातुरयमभिप्रायः - स्वाप्नभोजनादिकमपि शरी- ĆU