पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२१३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशिष्टाद्वैतसिद्धिः रेन्द्रियव्यापारपूर्वकमेव । तानि तु शरीरेन्द्रियाणि प्रतीतिमात्रशरीरा- गीति सम्प्रतिपन्नम् । एवमेव तदानीं निर्व्यापाराण्यनि जागरावस्थायां व्यापारवन्ति शरीरन्द्रियाणि दृष्टिसृष्टित्वात् प्रतीतिमात्रसाराण्येव | तथा च जागरव्यवहारोऽपि सर्वः स्वाप्नव्यवहारतुल्य एवेति । ६८ प्रथमः अत्रेदं वाच्यम् । स्वाप्नवस्तूनां मिथ्यात्वं सिद्धवत्कृत्य तद्द्दृष्टान्तेन अन्येषामपि मिथ्यात्वं भवान् साधवितुमिच्छति । विपरिवर्तः कुतो न भवति । शायितं शरीरं सत्यम् । तथैव स्वाप्नमपि शरीरं सत्यमिति | सत्यत्वे किं प्रमाणमिति चेत् प्रतीतिरेव । यत्प्रतीयते तदस्ति । आत्मवत् | प्रतीतस्यापि उत्तरकालबाधे न सत्यत्व- मिति चेत् तहिं बाघनिवन्धनमसत्यत्वमित्यास्थेयम् | बाधितत्वात् स्वानं शरीरादि असत्यमिति । एवं सति स्वापकाले शयानस्य अन्यदा चेष्ट- मानस्य च शरीरस्य अबाधिस्य कथं स्वाप्रतुल्यत्वं स्यात् । एतदुक्तं भवति । बाधितं स्वाप्नं भोजनं वस्तुतो नास्ति । अतस्तस्य वास्तव- शरीराद्यपेक्षा न भवति । जागरकालिकभोजनमपि यदि स्वाप्नवत् वस्तुतो न स्यात् तर्हि स्वाप्नभोजनवदेव वास्तवबाह्यशरीरादिव्यापारा- पेक्षं न स्यात् । एतत्सापेक्षं तु भवति । अतो न स्वाप्नव्यवहारतुल्यत्व- मिति | स्वाप्नजागरत्र्यवहारयोः बाधाबाधाभ्यां वैलक्षण्ये स्थिते वास्त- चबाह्यशरीरादिनिरपेक्षत्व सापेक्षत्वाभ्यामपि वैलक्षण्यं दुर्वारम् । अतो जाग्रद्भोजनादिव्यवहारस्य स्वाप्नव्यवहारतुल्यत्त्रे तद्वदेव स्वप्नद शिमनोमात्र कल्पितानन्यदृश्यतत्कालमात्रभाविशरीरेन्द्र यप्रवृत्ति साध्यत्वेन मातापितृप्रसुतसर्वदृश्यशरीरादिप्रवृत्त्यनपेक्षत्वान् स्वक्रियाव्याघातो दुष्प- रिहार एवेति । प्रतिकर्मव्यवस्थाविरुद्धञ्चायं दृष्टि सृटिविवादः । यत्तु मन्दाधिकारि- वपया सेति, तदयुक्तम् । तद्नङ्गीकारे प्रसज्यमानाया अव्यवस्थाया अमन्दाधिकारिभिदृष्टिसृष्टिवादिभिरपरिहारात् । यदि हि दृष्ट व