पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः दृष्टिसृष्टिः सद्भावमुक्ता द्रष्टव्यविषयाभावेन दर्शनाभावो ह्यत्र विवक्षितः । “यद्वैतन्न पश्यति पश्यन् वै तन्न पश्यति । न हि द्रष्टुष्टविरिलावा विद्यतेऽविता- शित्वात्” इति पूर्ववाक्यश्रवणात् । ननु ज्ञयाभावा ज्ञेयतया देवेति चेन्न | ज्ञेयस्य स्वरूतभावानुतेः । इन्द्रियाणामुपरमात् ग्रहणयोग्यं किमपि नास्ति । अतीन तद्ग्रहणमिति तालर्यात् । ततः प्राज्ञात् अथवा द्रष्टु- र्जीवात् यद्वा दृष्टेः अन्यत् विभकं पृथग्भूतं द्वितोयं योग्यं किमपि नास्ति यसश्येत् द्रष्टा, इति श्रुत्यत् अपिता अतिभवनोत्यादिना जागरावस्थायां पितृत्वादिधर्मैः गृह्यमाणानां सुपुत्रौतथा ग्रहणाभावताल- यण हि अपितृत्वादिकमुच्यते । न तु पिता नास्ति माता नास्तीति स्वरूवतस्तेषाम भाव मभिप्रेत्य | सर्वकार्यप्रपञ्चलये 'तद्भावा नाडीषु- तरात्मनच' इति नाडीपुरीतझणं प्रासाद खट्वापर्यकन्यायेन समुच्चयसिद्धान्तविरोधात् । सुषुप्तरारोरस्य तदुच्छ्वासनिश्वासयोश्च . प्रत्यक्षत्वेन सत्तकार्यलयस्य बाधितत्वाच्च । “तौह पुरुष सुनमाजग्मतुः " इति श्रुत्यैव तत्सत्त्वज्ञापनाञ्च । यत्र परिभाषायामुक्तं - - " न च सुषुप्ता- वन्तःकरणस्य विनाशेन तदधोनप्राणादिक्रियानुपपत्तिः । वस्तुतः श्वासा- यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् । सुषुनशरीरोपलम्भ- वत्" इति तत्र प्रत्यक्षापह्नवेन प्रमाणतिरस्कारित्वं सष्टम् | नूनमत एवानुशयवान् स पुनराह - "यद्वान्तःकरणस्य द्वे शक्ती ज्ञानशक्तिः क्रियाशक्तिश्चेति । तत्र ज्ञानशक्ति विशिष्टान्तःकरस्य सुषुतौ विनाशः न क्रियाशक्ति विशिष्टस्येति प्राणाद्यवस्थानमविरुद्धम् ।" इति । अत्र कोऽभिप्रायः अंशद्वयारब्धमन्तःकरणम् । तयोरेकः ज्ञानशक्तिविशिष्टः । अन्यः क्रियाशक्तिविशिष्टः । अयोः सुषुतौ नश्यति न द्वितीय इति वा ? अखण्डमन्तःकरणम् । तस्य ज्ञानशक्तिर्नश्यति क्रिया शक्ति- विशिष्टं तु तदस्तीति वा ? आद्ये एकस्य अतःकरणांशस्य सत्वात् अन्त्ये कृत्स्नस्य तस्य सत्त्वाच्च अन्तःकरणलयो नास्तीत्यभ्युपगतं ,