पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः एकजीववादः १०३ इदमा निर्दिष्टस्य जीवस्य व्यतिरिक्तत्वं, 'नित्यो नित्यानां चेतनश्चेतना- नामेको बहूनां यो विदधाति कामान् इति तन्नानात्वं च श्रुतिसिद्ध- मपि । एवं प्रमाणसिद्धं परित्यज्य अप्रामाणिकं प्रमाणविरुद्धं चेद- मुच्यते – अविद्यावशद् ब्रह्मैव संसरति, स एव जीव इति । न हि जीवब्रह्मणोरैक्यपरं किमपि श्रुतिवचनमस्ति । 'ऐतदात्म्यमिदं सर्वम् । तत्सत्यम् । स आत्मा’ इति सर्वस्य आत्मा ब्रह्मेत्युक्त्वा स तवाप्यात्मे - त्यावेदनपरत्वेन तत्त्वमसीति वाक्यस्य ऐक्यपरत्वाभावात् । न हि सर्वस्यात्मा ब्रह्मेति लोकतः प्राप्तिरस्ति, येन तत्र श्रुतेस्तात्पर्य न स्यात् । न चास्मिन प्रमाणान्तराबाधके प्रमाणान्तराबाध्ये प्रमाणान्तसप्राप्ते चार्थे स्थिने लाकवेदसर्वप्रमाणतोनकारि अर्थान्तरं स्वीकर्तुं युक्तम् | नेह नाना- स्तीत्यपि ब्रह्मस्वरूपं कत्येंन ज्ञानानन्दात्मकमेव, न तु क्वचिदपि तस्मिन् अन्यथात्वमस्तीति वा अत्मकं किमपि वस्तु नास्तीति वा बोधय- तीति नाद्वैतपरम् | एवमन्यदपि । अतो ब्रह्मणो जीवत्वमप्रामाणिकम् | अपहपाप्मा विजरो विमृत्युः विशोको विजिघत्सो विपिपासः, अनशन - नन्यो ऽभिचाकशीति, निरवद्यं निरञ्जनम, भोक्ता भोग्यं प्रेरितारं च मत्त्रा, इत्यादिप्रमाण शतविरुद्धं च | यस्य स्मरणमात्रेण जन्मसंसार- बग्धनाद् विमुक्तिरिष्यते तस्यैव संसारित्वाभिधानं वैदिकानामतिमात्र- सुदुःसहम् । न च मृगतृष्णिकोदकमरुभूमिदृष्टान्त इह सङ्गतः । न हि मरुभूमिरुदकेन सिक्ताऽस्मीति परितप्यते । पुनः शुक्रीभवनाय वा वरते । तदुप. यं वा ऽन्वेषयति । उपदिश्यते वा केनचित् सः । भवांस्तु ब्रह्मैवा- विद्यावशात्संसरति स एव जीव इस्यातिष्ठते । तेन बन्धमोक्षौ तस्यैवाक्तौ भवतः । आविद्यवत्वेऽपि बन्धस्य अपुरुषार्थत्वमस्ति नवा | आद्ये तदूतो ब्रह्मणो नित्यमुक्तत्वविरोधः । अन्त्ये मुक्त्युपायोपदेशवैयर्थ्यम् । तदेवम् हीयेत ब्रह्मभावाद्वा जह्याद्वा ब्रह्म जीवताम् । नत्वस्ति योग उभयोस्तेजस्तिमिरयोरिव ॥