पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अज्ञानप्रत्यक्षम् १०५ , तथा हि । यदुच्यते 'अहम मामन्यं च न जानामि' इति प्रत्यक्षं प्रमाणम् इति तन्न | गच्छति गमनाश्रयः, न गच्छति गमनाभावाश्रयः, करोति कृत्यायः, न करोति कृत्वभावाश्रयः, इति यथा तथा जानाति ज्ञानाश्नयः, न जानाति ज्ञानाभावाश्रयः, इति व्युत्पत्तिसिद्धेऽर्थे स्थिते अपूर्वार्धकल्पनाया अवकाशान् । 'अमज्ञः' इत्यभिलपनीयस्व प्रत्यक्ष- स्यान्यस्य वा ज्ञानस्य ज्ञानान्तराभावमात्र विषयत्वात् । नन्वभावज्ञाने प्रतियोग्यनुयोगिज्ञानं कारणम् । तदस्ति चेत् न जानामीति प्रत्ययो न घटते | तज्ज्ञानाश्रयत्वात् । नास्ति चेत् तदाऽपि न घटते । कारणभूत- ज्ञानाभावात् । तथा चानुभवसिद्धस्य प्रत्ययस्य ज्ञानाभावविपयकत्वानुप- पत्त्या विलक्षणं विषयान्तरं सिद्धयतीति चेन्न । विलक्षणविषयत्वेऽपि व्याघातस्य तुल्यत्व त् | अहं घटं न जानामीति प्रतीतिर्हि घटाज्ञान- विषया । तत्र वटज्ञानमस्ति न वा । कथं तद्ज्ञानम् । अन्त्ये कथं घडविपयकाज्ञानवानहमिति प्रत्ययो भवेन् । एवमहमर्थज्ञानाज्ञाना- भ्यामपि व्याघातां द्रष्टव्यः । ज्ञाने मां न जानामीति प्रतीत्ययोगात् । अज्ञाने अहं न जानामिति प्रतीत्ययोगात् । ✓ अहमतयाऽभिप्रेतं साज्ञिचैतन्यं भावरूमज्ञानं साक्षाद् विषयी- करोति । तद्वारा तद्वच्छेदकं घटादिरूपं विषय च । तेन विशिष्ट प्रतीतिरुपपन्ना ! न च कश्चन व्याघात इति । न । घटज्ञानविरहकाले सर्वदा घटमहं न जानामीति प्रतीत्यनुवृत्त्यापत्तेः । अपेक्षणीयान्तरा- झावात् । न हि तस्य तस्य वस्तुनः ज्ञानं वा तद्भावो वेत्येतद् विना इदमहं न जानामि इदमह न जानामीत्यज्ञाततया तत्तद्वस्तुनः तत्तद्व- स्त्वज्ञानस्य वा पृथगनुभवां दृश्यते । किं नाम त्वमिदं जानासीति प्रश्नो- त्तरतया तु कदाचित् इदमहं न जानामीति व्यवहारो भवति । तत्र इदमर्थस्य सामान्यतो ज्ञानसत्त्वेऽपि न जानामीति विशेषज्ञानप्रतिषेधा- नास्ति व्याघातः । घटमहं न जानामीति च घटशब्दवाच्योऽर्थः ८