पृष्ठम्:विशिष्टाद्वैतसिद्धिः.djvu/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः अज्ञानानुमानम् ३०. अज्ञानानुमानम् .: नाप्यनुमानम् । तथा हि । विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यति- रिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगत वस्त्वन्तरपूर्वकम, अप्रकाशितार्थ- प्रकाशकत्वात् अन्धकारे प्रथमोत्सन्न प्रदीपप्रभावत्, इति विवरणोक्ते अनुमाने तावत् एतज्जन्यानुमितिर्यदि स्वविषयभूतवस्त्वन्तरावरणस्त्र- निवर्त्यवस्त्वन्तरपूर्विका तहिं अज्ञानान्तरसिद्ध या अर्थान्तरम् | यदि न, तर्हि तत्र साध्याभावेऽपि हेतोः सत्त्वात् व्यभिचारः | प्रकाशप्रतिबन्धक- निवारकत्वमुपाधिश्च | प्रदीपप्रभा हि घटादिप्रकाशप्रतिबन्धकतमोनि- वारिका । तेन तत्र साध्यव्यापकत्वम् । पक्षान्तर्भावेन च साधनाव्याप- कत्वमिति । अत एव विवादास्पदं प्रमाणज्ञानं उक्त साध्यवन्न, ज्ञानत्वात्, यन्नैवं तन्वम्, यथा अन्धकारे प्रथमोत्सन्नमदीनप्रभेति प्रत्यनुमानं च | न-चाप्रयोजकत्वम | पदार्थान्तरकल्पनल घवतकपष्टव्यत्वात् । एतेन अप्रकाशितार्थप्रकाशकत्वरूपो हेतुः पक्षसपक्षसाधारणो दुवंच इत्यपि ज्ञापितम् । प्रकाशकत्वं हि ज्ञानस्यैव मुख्यम | प्रदीपप्रभाया अन्ध- कारनिरसनमात्रे उपयोगात् । यदि तु यथाकथञ्चित् प्रकाशकत्वमिष्यते तर्हि इन्द्रियसन्निकर्षादावतिप्रसङ्गः । यत्तु प्रकाशकपदवाच्यत्वं ज्ञाना- लोकयोः साधारणमिति, तदुपहास्यम् । पृथिव्याः शृङ्गित्वसाधकतया प्रयुक्तगोपदवायत्वात्मक हेतुतुल्यत्वात् । अनुकूलतर्कस त्यासत्त्वे उभयत्र तुल्ये इति न ततः कश्चिद्विशेषः सुवचः । नन्वप्रकाश विरोधित्वमुमयसा- आरणम | ज्ञानमालोकश्च उभयं विषयप्रकाशकम् । तत्र ज्ञानं अज्ञान- विरोधि सत् प्रकाशकम् । आलोस्तु तमोविरोधी सन् | एवं ज्ञानालो- कयोः अज्ञानविरोधित्वतमोविरोधित्वाभ्यां भेदेऽपि विषयस्योभयप्रकाश्य- त्वात् उभयोरप्रकाशविरोधित्वं समानम् | तचात्र हेतु याऽभिमतमिति चेन्न । इन्द्रिय सन्निकर्षादेरपि प्रकाशविरोधित्वात् । न च साक्षादप्रका- शविरोधित्वविवक्षया निस्तारः | ज्ञानद्वारकत्वस्य प्रदीपप्रभायामपि १०६